पारदारिक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारदारिकः, पुं, (परेषां अन्येषां दारान् गच्छतीति । परदार + “गच्छतौ परदारादिभ्यः ।” ७ । ३ । ७ । इत्यस्य वार्त्तिकोक्त्या ठक् ।) पारजायिकः । परदाररतः । (यथा, महाभारते । २ । ३१ । २५ । “तत्र माहिष्मतीवासी भगवान् हव्यवाहनः । श्रूयते हि गृहीतो वै पुरस्तात् पारदारिकः ॥”) “पुष्पकाण्डजयडिण्डिमायितं यत्र गोतमकलत्रकामिनः । पारदारिकविलाससाहसं देवभर्त्तुरुदटङ्कि भित्तिषु ॥” इति च नैषधे १८ सर्गः ॥ अस्य दोषा यथा, -- “यः परस्त्रीषु निरतस्तस्य श्रीर्वा कुतो यशः । स च निन्द्यः पापयुक्तः शश्वत् सर्व्वसभासु च ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे २१ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारदारिक¦ पु॰ परस्य दारान् गच्छति
“गच्छतौ परदारा-दिभ्यः” वार्त्ति॰ ठक्। यथेष्टं परस्त्रीगामिनि।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारदारिक¦ m. (-कः) An adulterer. E. पर another, दार wife, aff. ठक्।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारदारिकः [pāradārikḥ], An adulterer (intriguing with the wife of another); Y.2.295; पारदारिकविलाससाहसम् N.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारदारिक/ पार--दारिक mf( ई)n. ( -दार)relating to another's wife Cat.
पारदारिक/ पार--दारिक m. = -जायिकYa1jn5. MBh. Katha1s.