सामग्री पर जाएँ

पारमहंस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पारमहंस्यम्, त्रि, (परमहंसैर्गन्तव्यं परमहंसस्य भावः परमहंसेन ज्ञेयं यत् प्राप्यमिति वा । परमहंस + ष्यञ् ।) परमहंससम्बन्धि । यथा, “श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते । यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्म्यमाविष्कृतं तच्छृण्वन् सुपठन् विचारणपरो भक्त्या विमु- च्येन्नरः ॥” इति श्रीमद्भागवते । १२ । १३ । १८ ॥ “पारमहंस्यं परमहंस्यैः प्राप्यम् ।” इति तट्टी- कायां श्रीधरस्वामी ॥ (परब्रह्मधाम । यथा, भागवते । १ । १८ । २२ । “यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्म्मः ॥” प्रत्यङ्निष्ठारूपम् । यथा, तत्रैव । २ । ४ । १२ । “पुंसां पुनः पारमहंस्य आश्रमे ॥ व्यवस्थितानामनुमृग्यदाशुषे ॥” ज्ञानस्वरूपम् । यथा तत्रैव । ४ । २१ । ४१ । “न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्यपर्य्यगुः ॥”)

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पारमहंस्य¦ n. (-स्यं) Most sublime asceticism.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पारमहंस्य [pāramahaṃsya], a. Relating to a 'Paramahaṁsa' or a religious man who has subdued all his senses. -स्यम् Most sublime asceticism or meditation; साङ्ख्यायनः पारम- हंस्यमुख्यः Bhāg.3.8.8; न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्य पर्यगुः Bhāg.4.21.41. -Comp. -परि ind. relating to such asceticism.

"https://sa.wiktionary.org/w/index.php?title=पारमहंस्य&oldid=294290" इत्यस्माद् प्रतिप्राप्तम्