पारम्पर्य्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारम्पर्य्यम्, क्ली, (परम्पराया आगतम् । तत आगत इत्यण् । चतुर्वर्णादित्वात् ष्यञ् । पर- म्परा + स्वार्थे ष्यञ् वा ।) आम्नायः । कुल- क्रमः । इति हेमचन्द्रः ॥ तथा च । “यस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः । तत्र तं नावमन्येत धर्म्मस्तत्रैव तादृशः ॥” इति विवादभङ्गार्णवः ॥ परम्पराया भावश्च ॥ (यथा, महाभारते । ६ । ११७ । २७ । “निवृत्तेषु च सैन्येषु पारम्पर्य्येण सर्व्वशः । विमुक्तकवचाः सर्व्वे भीष्ममीयुर्नराधिपाः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारम्पर्य्य¦ न॰ परम्परैव स्वार्थे ष्यञ्। कुलादिपरम्परयाम्
“पारम्पर्य्यक्रमागतः” इति मनु।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारम्पर्य्य¦ n. (-र्य्यं)
1. Traditional instruction, tradition.
2. Continueous order or succession. E. परम्पर from one to another, aff. ष्यञ्।