पारम्पर्य्योपदेश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारम्पर्य्योपदेशः, पुं, (पारम्पर्य्येण गुरुपरम्परया प्राप्त उपदेशः ।) उपदेशपरम्परा । तत्- पर्य्यायः । ऐतिह्यम् २ इतिह ३ । इत्यमरः । २ । ७ । १२ ॥ परम्परैव पारम्पर्य्यं स्वार्थे ष्ण्यः पारम्पर्य्येणोपदेशः पारम्पर्य्योपदेशः तत्र इतिहशब्दोऽव्ययः । यथा । इतिह वृद्धैरुक्तं इह वटे यक्षः प्रतिवसतीति । इति एवं रूपं हन्ति गच्छति इतिह हनजनादिति डः । इतिह शब्दात् स्वार्थे ष्ण्ये ऐतिह्यम् । इति भरतः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारम्पर्य्योपदेश¦ पु॰ पारम्पर्य्येण पित्रादिपरम्परया उप-देशः न तु साक्षात्कारादिज्ञानम्। ऐतिह्ये अमरः(यथा इह वटे यक्षः) इत्यादिरुपदिश्यते एव सर्वैः नतु तत्र यक्षः केनचित् दृश्यते।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारम्पर्य्योपदेश¦ m. (-शः) Traditional instruction. E. पारम्पर्य्य, and उपदेश instruction.