पारलौलिक
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारलौलिकः, त्रि, (परलोके भवः परलोकाय हित इति वा । परलोक + ठञ् । “अनु- शतीकादीनाञ्च ।” ७ । ३ । २० । इति ञित्त्वादुभय- पदस्यैव वृद्धिः ।) परलोकसम्बन्धी । यथा, -- “दानपात्रमधमर्णमिहैक- ग्राहि कोटिगुणितं दिवि दायि । साधुरेति सुकृतैर्यदि कर्त्तुं पारलौकिककुसीदमसीदत् ॥” इति नैषधे । ५ । ९२ ॥ (तथा च महाभारते । १३ । १११ । १६ । “तस्मान्न्यायागतैरर्थैर्धर्म्मं सेवेत पण्डितः । धर्म्म एको मनुष्याणां सहायः पारलौकिकः ॥”)
