सामग्री पर जाएँ

पारशवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पारशवः, पुं, शूद्रायां विप्रतनयः । इत्यमरः । ३ । ३ । २०९ ॥ स तु निषादजातिः । यथा, -- “ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते । निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ शूद्रकन्यायामूढायां निषाद उत्पद्यते यतः संज्ञान्तरेण पारशवश्चोच्यते । तस्योपनयन- संस्कारनिषेधमाह । स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः ॥ स जीवन्नेव शवतुल्यः ।” इति मनुकुल्लूकभट्टौ ॥ परस्त्रीतनयः । (परशुरेव स्वार्थे अण् ।) शस्त्रम् । तत्तु लौहम् । इति मेदिनी । वे, ६० ॥ परशुजाते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=पारशवः&oldid=148367" इत्यस्माद् प्रतिप्राप्तम्