सामग्री पर जाएँ

पारावतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पारावतः, पुं, (पारे गिरिदुर्गनद्यादिपरपारे आपततीति । पार + आ + पत + अच् । पृषो- दरादित्वात् पस्य वः । उड्डीयने सुदक्षत्वा- देवास्य तथात्वम् । यद्बा, परावद्दूरदेश- स्तस्मिन् अन्तरीक्षादिदूरदेशे भवः उड्डीय- मानः सन् स्थित इत्यर्थः । परावत् + अण् ।) पक्षिविशेषः । पायरा इति भाषा ॥ तत्पर्य्यायः । छेद्यकण्ठः २ कपोतः ३ रक्तलोचनः ४ । इति रभसः ॥ पारापतः ५ कलरवः ६ अरुण- लोचनः ७ मदनकाकुरवः ८ कामी ९ रक्ते- क्षणः १० मदनमोहनवाग्विलासी ११ कण्ठी- रवः १२ गृहकपोतकः १३ ॥ (यथा, -- “सिंहो बली द्विरदकुञ्जरमांसभोजी संवत्सरेण कुरुते रतिमेकवारम् । पारावतः खलु शिलाकणमात्रभोजी कामी भवेदनुदिनं वद कोऽत्र हेतुः ॥” इत्युद्भटः ॥) अस्य मांसगुणाः । स्निग्धत्वम् । मधुरत्वम् । गुरुत्वम् । शीतलत्वम् । पित्तास्रदाहनाशित्वम् । बल्यत्वम् । वीर्य्यवृद्धिदातृत्वम् । इति राज- निर्घण्टः ॥ रसे पाके स्वादुत्वम् । कषायत्वम् । विशदत्वञ्च । इति राजवल्लभः ॥ तद्भेदो यथा, -- “पारावतोऽन्यो वग्देशी कामुको घुल्घुलारवः । पारावताङ्घ्रिपिच्छश्च ज्ञेयो गलरवश्च सः ॥” इति राजनिर्घण्टः ॥ मर्कटः । तिन्दुकः । इति मेदिनी । ते, २१२ ॥ गिरिः । इति हेमचन्द्रः ॥ (नागविशेषः । यथा, महाभारते । १ । ५७ । ११ । “पारावतः पारिजातः पाण्डरो हरिणः कृशः । विहङ्गः शरभो मेदः प्रमोदः संहतापनः । ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥” अम्लवर्गाणामन्यतमः । यथा, सुश्रुते । १ । ४२ । “दाडिमामलकमातुलुङ्गाम्रातककपित्थकरमर्द्द- वदरकोलप्राचीनामलकतिन्तिडीककोशाम्रभव्य- पारावतवेत्रफललकुचाम्लवेतसदन्तशठतक्रसुरा- शुक्तसौवीरकतुषोदकधान्याम्लप्रभृतीनि समा- सेनाम्लो वर्गः ॥” * ॥ परात् शत्रोरहङ्कारात् अवति रक्षतीति । अव रक्षणे + शतृ । ततः पारावते इदमिति । तस्येदमित्यण् । दत्तात्रेयस्य गुरुः । इति चिन्तामणिः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पारावतः [pārāvatḥ], 1 pigeon, turtle-dove, dove; पारावतः खरशिला- कणमात्रभोजी कामी भवत्यनुदिनं वद को$त्र हेतुः Bh.3.154; Me.4.

A monkey.

A mountain. -Comp. -अङ्घ्रिपिच्छः a kind of pigeon. -घ्नी N. of the river Sarasvatī.

"https://sa.wiktionary.org/w/index.php?title=पारावतः&oldid=294812" इत्यस्माद् प्रतिप्राप्तम्