पारिजातः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारिजातः, पुं, (पारमस्यास्तीति पारी समुद्रस्तस्मात् जातः । समुद्रमन्थनकाले तद्गर्भजातत्वात् तथा- त्वम् । पारिणोऽद्रेर्जातः इति कश्चित् ।) पारि- भद्रवृक्षः । सुरतरुः । इति मेदिनी । ते, २११ ॥ (समुद्रमन्थनकालेऽस्योत्पत्तिकथा यथा, भागवते । ८ । ८ । ६ । वज्रचक्रधरौ दृष्ट्वा देवराजजनार्द्दनौ ॥ क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान् हरिः । न मुमोच तथा चक्रं शक्र ! तिष्ठेति चाब्रवीत् । प्रनष्टवज्रं देवेशं गरुडक्षतवाहनम् । सत्यभामाब्रवीद्वीरं पलायनपरायणम् ॥ त्रैलोक्येश्वर ! नो युक्तं शचीभर्त्तुः पलायनम् । पारिजातस्रगाभोगा त्वामुपस्थास्यते शची ॥ श्रीपराशर उवाच । इत्युक्तो वै निववृते देवराजस्तया द्विज ! । प्राह चैनामलं चण्डि ! सख्युः खेदातिविस्तरैः ॥ न चापि सर्गसंहारस्थितिकर्त्ताखिलस्य यः । जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ यस्मिन् जगत् सकलमेतदनादिमध्ये यस्माद्यतश्च न भविष्यति सर्व्वभूतात् । तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि ! निराकृतस्य ॥ संस्तुतो भगवानित्थं देवराजेन केशवः । प्रहस्य भावगम्भीरमुवाचेन्द्रं द्बिजोत्तम ! ॥ देवराजो भवानिन्द्रो वयं मर्त्त्या जगत्पते ! । क्षन्तव्यं भवतैवैतदपराधं कृतं मया ॥ पारिजाततरुश्चायं नीयतामुचितास्पदम् । गृहीतोऽयं मया शक्र ! सत्या वचनकारणात् ॥ श्रीशक्र उवाच । विमोहयसि मांमीश ! मर्त्योऽहमिति किं वदन् । जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ नीयतां पारिजातोऽयं कृष्ण ! द्वारवतीं पुरीम् । मर्त्यलोके त्वया मुक्ते नायं वै स्थास्यते भुवि ॥ तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः । हर्षमुत्पादयामास द्वारकावासिनां द्विज ! ॥ अवतीर्य्याथ गरुडात् सत्यभामासहायवान् । निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ यमभ्येत्य जनः सर्व्वो जातिं स्मरति पौर्ब्बिकीम् । वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजना ॥ ततस्ते यादवाः सर्व्वे देहबन्धानमानुषान् । ददृशुः पादपे तस्मिन् कुर्व्वन्तो मुखदर्शनम् ॥” इति विष्णुपुराणे पञ्चमेऽंशे पारिजातहरणे ३० । ३१ अध्यायौ ॥ (ऐरावतकुलजातनाग- विशेषः । यथा, महाभारते । १ । ५७ । ११ । “पारावतः पारिजातः पाण्डरो हरिणः कृशः ॥” ऋषिविशेषः । यथा तत्रैव । २ । ५ । ११ । “पारिजातेन राजेन्द्र ! रैवतेन च धीमता । सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ॥” तन्त्रशास्त्रविशेषः । यथा, आगमतत्त्वविलासे । “भुवनेश्वरीं पारिजातं प्रयोगसारमुत्तमम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारिजातः [pārijātḥ] पारिजातकः [pārijātakḥ], पारिजातकः [पारमस्यास्तीति पारी समुद्रस्तत्र जातः, तस्य समुद्रोत्पन्नत्वात्]
N. of one of the five trees of Paradise, Nictanthus arbor-tristis (said to have been produced at the churning of the ocean and come into the possession of Indra, from whom it was wrested by Kṛiṣṇa and planted in the garden of his beloved Satyabhāmā), कल्पद्रुमाणामिव पारिजातः R.6.6;1.11;17.7; पञ्चैते देवतरवो मन्दारः पारिजातकः Ak.
The coral tree.
Fragrance. -Comp. -पुष्पकः A variety of gems. Kau. A.2.11.29.
