पारिजातकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारिजातकः, पुं, पारिणोऽद्रेर्जातः पारिजातः स्वार्थे कः । ‘पारे जातो विष्णुपद्याः पारि- जातेति शब्दितः ।’ इत्यागमः ॥ देवतरुः । तत्- पर्य्यायः । मन्दारः २ । इत्यमरः । २ । ४ । २६ ॥ पारिभद्रवृक्षः । पालितामादार इति भाषा ॥ “पारि पारं प्राप्तं जातं जन्म यस्य । ‘पारिभद्रे तु मन्दारुर्म्मन्दारः पारिजातकः ।’ इति हड्ड- चन्द्रः ॥” इत्यमरटीकायां भरतः ॥
