सामग्री पर जाएँ

पारिप्लवम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पारिप्लवम्, त्रि, (परि + प्लु + अच् । ततः प्रज्ञा- द्यण् ।) चञ्चलम् । इत्यमरः । ३ । १ । ७५ ॥ (यथा, रघुः । ३ । ११ । “तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ॥”) आकुलः । इति मेदिनी । वे, ६० ॥ (क्ली, तीर्थ- विशेषः । यथा, महाभारते । ३ । ८३ । १२ । “ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् । अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत ! ॥” पुं, जलपक्षी । इति रामानुजः ॥ यथा, रामा- यणे । ४ । २७ । २३ । “पारिप्लवशतैर्ज्जुष्टा बर्हिक्रौञ्चनिनादिता । रमणीया नदी सौम्या मुनिसङ्घनिषेविता ॥” पञ्चममन्वन्तरीयप्रकृतिविशेषः । यथा, हरि- वंशे । ७ । २७ । “देवाश्चाभूतरजसस्तथा प्रकृतयोऽपरे । पारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥”)

"https://sa.wiktionary.org/w/index.php?title=पारिप्लवम्&oldid=148441" इत्यस्माद् प्रतिप्राप्तम्