पारिषदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारिषदः, पुं, परिषदि तिष्ठति यः । (परिषदि साधुः । परिषदो ण्यः इत्यत्र योगविभागात् णः ।) सभास्थः । तत्पर्य्यायः । सभ्यः २ सभा- स्तारः ३ सभासत् ४ परिषद्वलः ५ पर्षद्बलः ६ पारिषद्यः ७ पार्श्वदः ८ । इति शब्दरत्नावली ॥ (यथा, महाभारते । २ । १० । ३२ । “शङ्कुकर्णमुखाः सर्व्वे दिव्याः पारिषदास्तथा ॥” परिषद इदम् । “पत्राध्वर्युपरिषदश्च ।” ४ । ३ । १२३ । इति अञ् ।) परिषत्सम्बन्धिनि, त्रि ॥
