सामग्री पर जाएँ

पार्व्वती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पार्व्वती, स्त्री, (पर्व्वतो हिमाचलस्तस्य तदधिष्ठा- तृदेवस्येति भावः अपत्यमिति । अण् ङीप् च ।) दुर्गा । इत्यमरः ॥ तस्या व्युत्पत्तिर्यथा, -- “तिथिभेदे कल्पभेदे पर्व्वभेदप्रभेदतः । ख्यातौ तेषु च विख्याता पार्व्वती तेन कीर्त्तिता ॥ महोत्सवविशेषश्च पर्व्वस्विति प्रकीर्त्तितम् । तस्याधिदेवी या सा पार्व्वती परिकींर्त्तिता ॥ पर्व्वतस्य सुता देवी साविर्भूता च पर्व्वते । पर्व्वताधिष्ठातृदेवी पार्व्वती तेन कीर्त्तिता ॥” इति प्रकृतिखण्डे दुर्गोपाख्याने ५४ अध्यायः ॥ शल्लकी । गोपालपुत्त्रिका । इति मेदिनी ॥ द्रौपदी । जीवनी । इति विश्वः ॥ सौराष्ट्र- । मृत्तिका । इति रत्नमाला ॥ क्षुद्रपाषाणभेदा । घातकी । सैंहली । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=पार्व्वती&oldid=148508" इत्यस्माद् प्रतिप्राप्तम्