पार्श्वपरिवर्त्तन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पार्श्वपरिवर्त्तनम्, क्ली, (पार्श्वस्य पार्श्वेन वा परि- वर्त्तनम् ।) कटिदानम् । कर्णिकापरिवृत्तिः । पाशफेराण इति भाषा । श्रीहरेः पार्श्वपरि- वर्त्तनोत्सवो यथा, -- “भाद्रस्य शुक्लैकादश्यां शयनोत्सववत् प्रभोः । कटिदानोत्सवं कुर्य्याद्वैष्णवैः सह वैष्णवः ॥” तथा च भविष्योत्तरे । “प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि । कटिदानं भवेद्विष्णोर्महापातकनाशनम् ॥ जलाशयान्तिकं नीत्वा संपूज्याभ्यर्च्च्य च प्रभुम् । कर्णिकापरिवृत्तिञ्च दक्षिणाङ्गे प्रकल्पयेत् ॥” अस्य व्याख्या । शयनोत्सवात् कथञ्चिद्बिशेपमनु- वादपूर्ब्बकं लिखति । जलेति त्रिभिः कर्णिकायाः कट्याः परिवृत्तिं दक्षिणाङ्गे प्रकल्पयेदिति पूर्व्वं वामाङ्गेन सुप्तस्याधुना दक्षिणाङ्गेन शाययेदि- त्यर्थः । तत्कालविशेषश्च पूर्ब्बमेव निर्णीतोऽस्ति । अभ्यर्थनामन्त्रः । “देवदेव ! जगन्नाथ योगिगम्य ! निरञ्जन ! । कटिदानं कुरुष्वाद्य मासि भाद्रपदे शुभे ॥ महापूजां ततः कृत्वा वैष्णवान् परितोष्य च । देवं स्वमन्दिरे नीत्वा यथापूर्ब्बं निवेशयेत् ॥” इति श्रीहरिभक्तिविलासे १५ विलासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पार्श्वपरिवर्त्तन¦ न॰ पार्श्वेन परिवर्त्तनम्। यत्पार्श्वमधःस्थापयित्वा शयितः तत्पार्श्वस्योर्द्धोन्नयने (पाशमोड)[Page4320-a+ 38]
१ पार्श्वस्य परावृत्तौ। सुप्तस्य हरेः भाद्रशुक्लैकादश्यादौकर्त्तव्ये पार्श्वपरिवर्त्तनाख्ये
२ उत्सवभेदे च
“प्राप्तेभाद्रपदे मासि एकादश्यां सितेऽहनि। कटिदानं भवेद्वि-ष्णोर्महापातकनाशनम्। जलाशयान्तिकं नीत्वा संपू-ज्याभ्यर्च्य च प्रभुम्। कर्णिकापरिवृत्तिञ्च दक्षिणाङ्गेप्रकल्पयेत्” हरिभ॰ भवि॰ पु॰। एकादश्यामिति सन्ध्यायांश्रवणमध्यपादलाभे वोध्यमन्यथा
“द्वादश्यामेव कारयेत्” तत्र व्यवस्था उत्थानशब्दे
११
०३ पृ॰ दृश्या।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पार्श्वपरिवर्त्तन¦ n. (-नं)
1. Turning round from one side to the other in a bed.
2. A festival held in the eleventh day of the first half of Bha4dra when VISHN4U is supposed to turn upon the other side in his sleep. E. पार्श्व, and परिवर्त्तन turning.
