सामग्री पर जाएँ

पार्श्वम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पार्श्वम्, क्ली, पुं, (स्पृश्यते इति । स्पृश + “स्पृशेः श्वण्शुनौ पृ च ।” उणां ५ । २७ । इति श्वण् पृ-आदेशश्च ।) कक्षाधोभागः । इत्यमरः । २ । ६ । ७९ ॥ पाश इति भाषा ॥ (यथा, शुश्रुते चिकित्सितस्थाने । ३६ अध्याये । “तिर्य्यक् प्रणिहिते नेत्रे तथा पार्श्वावपीडिते ॥” यथा, शकुन्तलायाम् १ अङ्के । “न मे दूरे किञ्चित् क्षणमपि न पार्श्वे रथ- जवात् ॥”)

पार्श्वम्, क्ली, (स्पृश + श्वण् धातोः पृ-आदेशश्च ।) चक्रोपान्तम् । (पर्शूनां समूहः । अण् ।) पर्शुगणः । पार्श्वास्थिसमूहः । इति मेदिनी ॥ (अनृजुरुपायः । इति सिद्धान्तकौमुदी ॥)

"https://sa.wiktionary.org/w/index.php?title=पार्श्वम्&oldid=148519" इत्यस्माद् प्रतिप्राप्तम्