पार्श्वशूल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पार्श्वशूलः, पुं, क्ली, (पार्श्वे जातः शूलः ।) शूल- रोगविशेषः । तस्यौषधम् । यथा, -- “शतपुष्पा देवदारु शालपर्णी वचागुरु । कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा ॥ पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत् । हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ॥” इति गारुडे १८९ अध्यायः ॥ (अस्य सम्प्राप्तिपूर्ब्बकलक्षणचिकित्सितानि यथा, सुश्रुते उत्तरतन्त्रे ४२ अध्याये । “रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः । स संरुद्धः करोत्याशु मानं गुडगुडायनम् ॥ सूचीभिरिव निस्तोदः कृच्छ्रोच्छ्वासी तदा नरः । नान्नं वाञ्छति नो निद्रामुपैत्यर्त्तिनिपीडितः ॥ पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः । तत्र पुष्करमूलानि हिङ्गुसौवर्च्चलं विडम् ॥ सैन्धवं तुम्बुरूपष्याचूर्णं कृत्वा तु पाययेत् । पार्श्वहृद्वस्तिशूलेषु यवक्वाथेन संयुतम् ॥ सर्पिःप्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम् । बीजपूरकसारं वा पयसा सह साधितम् ॥ एरण्डतैलमथवा मद्यमस्तुपयोरसैः भजयेच्चापि पयसा जाङ्गलेन रसेन वा ॥”
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पार्श्वशूल¦ पु॰ सुश्रुतोक्ते शूलरोगभेदे तल्लक्षणादि यथा
“रुणाद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः। स संरुध्य-करोत्याशु ध्मानं गुडगुडायनम्। सूचीभिरिव निस्तोदःकृच्छोच्छासी तदा नरः। नान्नं वाञ्छति नो निद्रा-मुपैत्यार्त्तिनिपीडितः। पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पार्श्वशूल¦ n. (-लं) Spasm of the chest, stitch. E. पार्श्व, and शूल sharp pain.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पार्श्वशूल/ पार्श्व--शूल m. a shooting pain in the side , stitch , pleurisy Sus3r.