पालिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पालिः, स्त्री, (पल्यते पाल्यते इति । पल पालने + “बाहुलकात् शलतिपलतिभ्याञ्च ।” ४ । १२९ । इत्युज्ज्वलदत्तोक्त्या इण् ।) कर्णलताग्रम् । (यथा, “यस्य पालिद्वयमपि कर्णस्य न भवेदिह । कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्द्धयेत् ॥ बाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत् । आभ्यन्तरायां दीर्घायां बाह्यसन्धिरुदाहृतः ॥ एकैव तु भवेत् पालिः स्थूला पृथ्वी स्थिरा च या । तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् ॥ गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता । कर्णपालिमपालेस्तु कुर्य्यान्निर्ल्लिख्य शास्त्रवित् ॥” “कर्णपाल्यामयान्नॄणां पुनर्वक्ष्यामि सुश्रुत ! । कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः ॥ द्विधा वाप्यथ संसृष्टाः कुर्व्वन्ति विविधा रुजः । विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके ॥ दाहविस्फोटजननं शोफः पाकश्च पैत्तिके । कण्डूः सश्वयथुः स्तम्भो गुरुत्वञ्च कफात्मके ॥ यथादोषञ्च संशोध्य कुर्य्यात्तेषां चिकित्सितम् । स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः ॥ मृद्वीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा । य एवं वेत्ति दोषाणां चिकित्सां कर्त्तुमर्हति ॥ अत ऊर्द्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान् । उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम् ॥ अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा । स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम् ॥ अपामार्गः सर्ज्जरसः पाटलालकुचत्वचौ । उत्पाटके प्रलेपः स्यात् तैलमेभिश्च पाचयेत् ॥ शम्पाकशिग्रुपूतीकगोधामेदोऽथ तद्वसा । वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत् ॥ लेपमुत्पुटके दद्यात्तैलमेभिश्च साधितम् । गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम् ॥ श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम् । पाठां रसाञ्जनं क्षौद्रं तथास्यादुष्णकाञ्जिकम् ॥ दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम् । व्रणीभूतस्य देयं स्यादिदं तैलं विजानता ॥ मधुकं क्षीरकाकोली जीवकाद्यैर्विपाचितम् । गोधावराहसर्पाणां वसाः स्युः कृतवृंहणे ॥ प्रलेपनमिदं दद्यादवसिच्यावमन्थके । प्रपौण्डरीकं मधुकं समङ्गां धवमेव च ॥ तैलमेभिश्च सम्पक्वं शृणु कण्डूमतः क्रियाम् । सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम् ॥ एतैरालेपनं दद्यात् तैलमेभिश्च साधितम् । ग्रन्थिके गुटिकां पूर्ब्बं स्रावयेदवपाट्य तु ॥ ततः सैन्धवचूर्णन्तु घृष्ट्वा लेपं प्रदापयेत् । लिखित्वा तत् स्रुतं घृष्ट्वा चूर्णै रोध्रस्य जम्बुले ॥ क्षीरेण प्रतिसार्य्यैनं शुद्धं संरोपयेत्ततः । मधुपर्णीं मधूकञ्च मधुकं मधुना सह ॥ लेपः स्राविणि दातव्यस्तैलमेभिश्च साधितम् । पञ्चकल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः ॥ जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत् ॥” इति सुश्रुते सूत्रस्थाने षोडशेऽध्याये ॥) अश्रिः । पङ्क्तिः । (यथा, गीतगोविन्दे । ६ । १० । “विपुलपुलकपालिः स्फीतशीत्कारमन्त- र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ॥”) अङ्कप्रभेदः । छात्रादिदेयम् । इति मेदिनी । ले, ३० ॥ यूका । जातश्मश्रुस्त्री । प्रान्तः । (यथा, गीतगोविन्दे । ३ । १३ । “भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणा गुणः श्रवणपालिरिति स्मरेण । तस्यामनङ्गजयजङ्गमदेवताया- मस्त्राणि निर्ज्जितजगन्ति किमर्पितानि ॥”) सेतुः । कल्पितभोजनम् । प्रशंसा । उत्सङ्गः । प्रस्थः । इति हेमचन्द्रः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पालिः [pāliḥ] ली [lī], ली f.
The tip of the ear; श्रवणपालिः Gīt.3.
The edge, skirt, margin; तिष्ठतो युगपालीषु Mb.7.191. 3; महति सितपटच्छन्नपालीं कपालीम् Bh.3.55.
The sharp side, edge or point of anything (अश्रि); कपोलपालिं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तराख्याम् Bv.2.9.
Boundary, limit.
A line, row; विपुलपुलकपाली Gīt.6; Śi.3.51; रजनीचरपालिरागमिष्यत्यविलम्बं प्रतिपाल्यतां कुमारौ Rām. Ch. 2.52.
A spot, mark.
A causeway, bridge.
The lap or bosom.
An oblong pond.
Maintenance of a pupil by his teacher during the period of his studies.
A louse.
Praise, eulogium.
A woman with a beard.
The hip.
A measure of capacity (प्रस्थ).
A circumference. -ली A pot, boiler. -Comp. -आमयः a disease of the outer ear.-ज्वरः a kind of fever. -भङ्गः the bursting of a dike.
