सामग्री पर जाएँ

पावकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पावकः, पुं, (पुनातीति । पू ञ गि शोधे + ण्वुल् ।) अग्निः । इत्यमरः । १ । १ । ५७ ॥ (यथा, काशी- खण्डे ९ अध्याये । “अपावनानि सर्व्वाणि वह्निसंसर्गतः क्वचित् । पावनानि भवन्त्येव तस्मात् स पावकः स्मृतः ॥”) वैद्युताग्निः । यथा, -- “पावकः पवस्रानश्च शुचिरग्निश्च ते त्रयः । निर्म्मथ्यः पवमानः स्याद्वैद्युतः पावकः स्मृतः ॥ यश्चासौ तपते सूर्य्यः शुचिरग्निस्त्वसौ स्मृतः ॥” इति कौर्म्मे १२ अध्यायः ॥ स च ब्रह्मणो मानसपुत्त्रादभिमानिनामकाग्नेः स्वाहायां जातः । यथा, -- “योऽसावग्निरभीमानी स्मृतः स्वायम्भुवेऽन्तरे । ब्रह्मणो मानसः पुत्त्रस्तस्मात् स्वाहा व्यजीजनत् ॥ पावकं पवमानञ्च शुचिरग्निश्च यः स्मृतः ॥” इति मात्स्ये ४८ अध्यायः ॥ सदाचारः । वह्निमन्थः । (अस्य पर्य्यायो यथा, “तेजोमन्थो हविर्मन्थो ज्योतिष्को पावकोऽरणिः । वह्निमन्थोऽग्निमन्थश्च मथनो गणिकारिका ॥” इति वैद्यकरत्नमालायाम् ॥) चित्रकः । भल्लातकः । विडङ्गः । इति मेदिनी । के, ११८ ॥ शोधयितृनरः । इति हेमचन्द्रः ॥ रक्त- चित्रकः । कुसुम्भः । इति राजनिर्घण्टः ॥ (पवित्र- कारके, त्रि । यथा, ऋग्वेदे । ३ । ३१ । २० । “मिहः पावकाः प्रतता अभूवन् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पावकः&oldid=148586" इत्यस्माद् प्रतिप्राप्तम्