सामग्री पर जाएँ

पावनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पावनः, पुं, (पावयतीति । पू + णिच् + ल्युः ।) व्यासः । पावकः । इति मेदिनी । ने, ९० ॥ (यथा, ३ । १८५ । मनुश्लोकटीकायां कुल्लूकभट्टः । “पावनः सभ्योऽग्निर्यः शीतापनोदनाद्यर्थं बहुषु देशेष्वपि विधीयते ॥”) सिह्लकः । इति विश्वः ॥ पीतभृङ्गराजः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ४५ । “भूतभव्यभवन्नाथः पवनः पावनोऽनलः ॥” “पावयतीति पावनः । भीषास्माद्वातः पवत इति श्रुतेः ।” इति शाङ्करभाष्यम् ॥) सिद्धः । पवित्रे पावयितरि च, त्रि । इति हेमचन्द्रः ॥ (यथा, रघुः । १९ । ५३ । “स त्वनेकवनिता सखोऽपि सन पावनीमनवलोक्य सन्ततिम् । वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पावनः&oldid=148593" इत्यस्माद् प्रतिप्राप्तम्