पाशुपतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाशुपतः, पुं, (पशुपतिर्देवतास्येति । “सास्य देवता ।” ४ । २ । २४ । इति अण् ।) वक- पुष्पम् । (अस्य पर्य्यायो यथा, भावप्रकाशे । १ । १ । “शिवमल्ली पाशुपत एकाष्ठीलो वुको वसुः ॥”) पशुपत्यधिदैवतः । तद्भक्तः । इति मेदिनी । ते, २११ ॥ (क्ली, तन्त्रशास्त्रविशेषः । यथा, कूर्म्म- पुराणे १४ अध्याये । “एवं सम्बोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥ कापालं नाकुलं वामं भैरवं पूर्ब्बपश्चिमम् । पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥” अथर्व्ववेदान्तर्गतोपनिषद्विशेषः । यथा, मुक्ति- कोपनिषदि । “सावित्र्यात्मा पाशुपतं परब्रह्मावधूतकम् ॥”)
