पाशुपतव्रत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाशुपतव्रतम्, क्ली, (पाशुपतं पशुपतिसम्बन्धि व्रतम् ।) पशुपतिव्रतविशेषः । यथा, -- “यथा पशुपतिर्नित्यं हत्वा सर्व्वमिदं जगत् । न लिप्यते पुनः सोऽपि यो नित्यं व्रतमाचरेत् ॥ इहजन्मकृतं पापं पूर्ब्बजन्मकृतञ्च यत् । व्रतं पाशुपतं नाम कृत्वा हन्ति द्विजोत्तम ! ॥ द्बादश्यामेकभक्ताशी त्रयोदश्यामयाचितम् । चतुर्द्दश्यां तथा नक्तमुपवासं परेऽहनि ॥ गोवृषञ्चैव हैरण्यं रौप्यं ताम्रमयन्तथा । सौवर्णं कारयेत् पत्रं गुञ्जाशीत्या पृथक् पृथक् ॥ तत्रैवोल्लेखयेन्मूर्त्तिं शिवायाश्च शिवस्य च । तत्प्रमाणं वृषं कुर्य्याद्रौप्यं हेम्नश्चतुर्गुणैः ॥ रौप्यादष्टमुणं ताम्रं तदर्द्धं वापि कारयेत् । क्षारपत्रे समारोप्य वस्त्रोत्तमयुतन्तथा ॥ त्रयोदश्यामेकभक्तं रिक्तायां नक्तमाचरेत् । कुर्य्यादयाचितं दर्शे पादकृच्छ्रव्रतञ्चरेत् ॥ गन्धपुष्पैः सुनैवेद्यैर्व्वस्त्राभरणदीपकैः । गङ्गाधरं समभ्यर्च्च्य प्रार्थयेत् प्रवरं वरम् ॥ गङ्गाधर ! महादेव ! सर्व्वलोकचराचर ! । जहि मे सर्व्वपापानि पूजितस्त्विह शङ्कर ! ॥ शङ्कराय नमस्तुभ्यं सर्व्वपापहराय च । यथा यमं न पश्यामि तथा मे कुरु शङ्कर ! ॥ यममार्गं यया शम्भो ! न पश्यामि कदाचन । संपूजितो मया भक्त्या तथा मे कुरु शङ्कर ! ॥ परमास्त्रञ्च शैवानां भस्मैतत्पारमेश्वरम् । धौभ्याग्रजस्य तपसि ह्यापदो यन्निवारिताः ॥ तस्मात्सर्व्वप्रयत्नेन कृत्वा पाशुपतं व्रतम् । धनवद्भस्म संगृह्य भस्मस्नानरतो भवेत् ॥” इति श्रीशिवपुराणे वायुसंहितायां पूर्ब्बभागे एकोनत्रिंशोऽध्यायः ॥ * ॥)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाशुपतव्रत/ पाशुपत--व्रत n. = -योगMBh.
पाशुपतव्रत/ पाशुपत--व्रत n. N. of the 40th परिशिष्टof AV.
