सामग्री पर जाएँ

पाश्चात्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाश्चात्यः, त्रि, (पश्चात् + “दक्षिणापश्चात्पुरस- स्त्यक् ।” ४ । २ । ९८ । इति त्यक् ।) पश्चा- द्भवः । (यथा, देवीभागवते । १ । १७ । ६६ । “पाश्चात्यं यामिनीयामं ध्यानमेवान्वपद्यत । स्नात्वा प्रातः क्रियाः कृत्वा पुनरास्ते समा- हितः ॥”) पश्चिमदेशजातः । इति मुग्धबोधव्याकरणम् ॥ (यथा, महाभारते । १ । १२१ । ११ । “स विजित्य गृहीत्वा च भूपतीन् राजसत्तमः । प्राच्यानुदीच्यान् पाश्चात्यान् दाक्षिणात्यानकाल- यत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पाश्चात्यः&oldid=148620" इत्यस्माद् प्रतिप्राप्तम्