सामग्री पर जाएँ

पाषण्डः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषण्डः, पुं, (पापं सनोति दर्शनसंसर्गादिना ददातीति । षणु ञ दाने + ञमन्तात् डः । पृषो- दरादित्वात् साधुः । यद्वा, पाति रक्षति दुष्कृ- तेभ्य इति । पा + क्विप् । पा वेदधर्म्मस्तं षण्ड- यति खण्डयतीति । यदुक्तम् । “पालनाच्च त्रयीधर्म्मः पाशब्देन निगद्यते । तं ष(ख)ण्डयन्ति ते यस्मात् पाषण्डास्तेन हेतुना ॥ नानाव्रतधरा नानावेशाः पाषण्डिनो मताः ॥”) वेदविरुद्धाचारवान् सर्व्ववर्णचिह्नधारी । बौद्ध- क्षपणकादिः । इति भरतः ॥ तत्पर्य्यायः । सर्व्व- लिङ्गी २ । इत्यमरः । २ । ७ । ४५ ॥ कौलिकः ३ पाषण्डिकः ४ । इति शब्दत्नावली ॥ * ॥ पाष- ण्डादिसम्भाषणे दोषो यथा, -- “तस्मात पाषण्डिभिः पापैरालापं स्पर्शनं त्यजेत् । विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥ क्रियाहानिर्गृहे यस्य मासमेकं प्रजायते । तस्यावलोकनात् सूर्य्यं पश्येत मतिमान् नरः ॥ किं पुनर्य्यैस्तु सन्त्यक्ता त्रयी सर्व्वात्मना द्विज ! । पाषण्डभोजिभिः पापैर्व्वेदवादविरोधिभिः ॥ पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान् शठान् । हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥ दूरापास्तस्तु संसर्गः सहास्या वापि पापिभिः । पाषण्डिभिर्दुराचारैस्तस्मात्तान् परिवर्ज्जयेत् ॥ एते नग्नास्तवाख्याता दृष्ट्या श्राद्धोपघातकाः । येषां सम्भाषणात् पुंसां दिनपुण्यं प्रणश्यति ॥ एते पाषण्डिनामानो ह्येतान्न आलपेद्बुधः । पुण्यं नश्यति सम्भाषादेतेषां तद्दिनोद्भवम् ॥ पुंसां जटाधरणमौण्ड्यवतां वृथैव मोघाशिनामखिलशौचनिराकृतानाम् । तोयप्रदानपितृपिण्डबहिष्कृतानां सम्भाषणादपि नरा नरकं प्रयान्ति ॥” इति विष्णुपुराणे ३ अंशे १८ अध्यायः ॥ * ॥ पाषण्डादीनां लक्षणं यथा, -- “भ्रष्टः स्वधर्म्मात् पाषण्डो विकर्म्मस्थो निषिद्धकृत् । यस्य धर्म्मध्वजो नित्यं सुरध्वज इवोत्थितः ॥ प्रच्छन्नानि च पापानि वैडालं नाम तद्व्रतम् ॥ तद्वान् वैडालव्रतिकः ॥ प्रियं व्यक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः ॥ सन्देहकृद्धेतुभिर्यः सत्कर्म्मसु सहैतुकः । अर्व्वाग्दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ॥ शठो मिथ्याविनीतश्च वकवृत्तिरुदाहृतः ॥” इति । एतट्टीकायां स्वामी ॥ * ॥ अपि च । सदाशिव उवाच । “येऽन्यदेवं परत्वेन वदन्त्यज्ञानमोहिताः । नारायणाज्जगद्बन्द्यं ते वै पाषण्डिनस्तथा ॥ कपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः । ऋते वनस्थाश्रमाश्च जटावल्कलधारिणः । अवैदिकक्रियोपेतास्ते वै पाषण्डिनस्तथा ॥ शङ्खचक्रोर्द्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः । कामं क्रोधञ्च लोभञ्च मोहञ्च मदमत्सरौ ॥” इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ * ॥ तस्य राष्ट्राद्बहिष्कर्त्तव्यता यथा, -- “कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च मानवान् । विकर्म्मस्थान् शौण्डिकांश्च क्षिप्रं निर्व्वासयेत् पुरात् ॥ एते राष्ट्रे वर्त्तमाना राज्ञः प्रच्छन्नतस्कराः । विकर्म्मक्रियया नित्यं वाधन्ते भद्रिकाः प्रजाः ॥” इति मानवे ९ अध्यायः ॥ अपि च । “आक्रुद्धांश्च तथा लुब्धान् दृष्टार्थातत्त्वभाषिणः । पाषण्डिनस्तापसादीन् परराष्ट्रेषु योजयेत् ॥” इति युक्तिकल्पतरुः ॥

"https://sa.wiktionary.org/w/index.php?title=पाषण्डः&oldid=148627" इत्यस्माद् प्रतिप्राप्तम्