सामग्री पर जाएँ

पाषण्डिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषण्डी, [न्] पुं, (पां त्रयीधर्म्मं षण्डयतीति । पा + षण्ड + णिनिः ।) पाषण्डः । इति जटा- धरः ॥ (यथा, मनुः । ४ । ३० । “पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान् शठान् । हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषण्डिन्¦ पु॰ पां वेदधर्मं षण्डयति षण्ड + णिच--इनिपाषण्डे शब्दच॰ तस्य लक्षणं यथा
“येऽन्यदेवं परत्वेन वदन्त्यज्ञानमोहिताः। नारायणादुजगद्वन्द्यात् ते वै पाषण्डिनस्तथा। कपालभस्मास्थिधराये ह्यवैदिकलिङ्गिनः। ऋते वनस्थाश्रमांश्च जटावल्कलधारिणः। अवैदिकक्रियोपेतास्ते वै पाषण्डिनस्तथा। शङ्खचक्रोर्द्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः। रहिता येद्विजा देवि! ते वै पाषण्डिनो मताः। श्रतिस्मृत्युक्तमा-चारं यस्तु नाचरति द्विजः। स पाषण्डीति विज्ञेयःसर्वलोकेषु गर्हितः। समस्तयज्ञभोक्तारं विष्णुं ब्रह्म-ण्यदैवतम्। उदस्य देवतान्येभ्यो जहोति च ददाति च। स पाषण्डीति विज्ञेयः स्वतन्त्रो वापि कर्म्मसु। स्वात-न्त्र्यात् क्रियते यैस्तु कर्म वेदोदितं महत्। विना वैभगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः। यस्तु नारायणंदेवं व्रह्मरुद्रादिदैवतैः। समत्वेनैव जानाति स पाषण्डीभवेत् सदा। अनास्था क्रियते यैस्तु मनोवाक्कायकर्मभिः। वासुदेवं न जानाति स पाषण्डी भवेत् द्विजः। हरे-र्नामकमन्त्राभ्यां लोकाः सद्भिर्विवर्जिताः। यदि वर्णाश्र-माद्या ये ते वै पाषण्डितः स्मृताः। वर्णानां गुरवोनित्यं शिवे! यद्यप्यवैष्णवाः। भगवद्धर्मरहिता वैष्णवा-दिविनिन्दकाः। रजस्तमोमया जीवहिंसका जीवभ-क्षकाः। असत्प्रतिग्रहरता देवला ग्रामयाजकाः। भ्रष्टाचारास्तथा व्रात्या नानाविबुधपूजकाः। देवतो-च्छिष्टश्राद्धादिभोजिनः शूद्रवत्क्रियाः। विविधासत्क-र्मरता भक्षणाद्यविचारिणः। लोभमोहमदक्रोधकामा-हङ्कारिणः सदा। एवंविधाः पारदारिकाद्या येऽत्रशुभानने!। अन्येषां का कथा तत्र पाषण्डा ब्रा-ह्मणाः स्मृताः। वर्णाश्रमाद्या ये मर्त्याः स्वस्वधर्मविव-र्जिताः। ते वै पाषण्डिनो देवि! नारायणबहिर्मु-खाः। सर्वाशिनो द्विजा येऽपि सर्वविक्रयिणस्तथा। ये वेदाचाररहितास्ते वै पाषण्डिनो मताः। ये त्वस-द्भक्ष्यपानादिरता लोका निरन्तरम्। शिवे! पाषण्डिनोज्ञेया इह नास्त्यत्र संशयः। विष्णुवैष्णवगोभूमिदेवा-दिषु विशेषतः। अश्वत्थतुलसीतीर्थक्षेत्रादिषु महागुरौ। लक्ष्मीसरस्वतीगङ्गायमुनासु वरानने!। स्मृताःपाषण्डिनस्तेऽपि ये न सेवापरायणाः। रुद्राक्षेन्द्रा-क्षभद्राक्षस्फटिकाक्षादिधारिणः। जटिला भस्मलि-प्ताङ्गास्ते वै पाषण्डिनः प्रिये!। असिजीवी मसीजीवी-[Page4324-a+ 38] घावकः पाचकस्तथा। एते पाषण्डिनो विप्रा मादकद्रव्यभोजिनः। देवि! कार्ष्णादयो भक्ता अनन्यशरणास्तुये। पाषण्डसङ्गं न कुर्युस्तद्गेहे पानभोजने। तत्स्पर्शजलपानञ्च चक्रुस्तत्सङ्गमादिकम्। तत्पानभो-जनालापसङ्गालिङ्गनतोऽचिरात्। पाषण्डिनो वैष्णवाःस्युरन्येषामपि का कथा। किमत्र बहुनोक्तेन ब्राह्मणाये ह्यवैष्णवाः। असदाचरणाश्चेत् स्युस्तदा पाषण्डिनःस्मृताः। एतद्भोजनपानादिकर्मभिर्वैष्णवा जनाः। पाष-ण्डिनस्तथा स्युर्वै जटामस्मादिधारिणः” पाद्मोत्तरखण्डेपाषण्डाचरणं नाम

४२ अ॰। एतच्च वैष्णवप्रशंसार्थंशैवलिङ्गधारणस्यापि शास्त्रसिद्धत्वात्। तत्संसर्गादिनिषेधोयथा
“तस्मात् पाषण्डिभिः प्रापैरालापं स्पर्शनं त्यजेत्। विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः। क्रि-याहानिर्गृहे सूर्यं पश्येत सतिमान् नरः। किं पुनर्येस्तुसन्त्यक्ता त्रयी सर्वात्मना द्विज!। पाषण्डभोजिभिःपापैर्वेदवादविरोधिभिः। पाषण्डिनो विकर्मस्थान्वैडालव्रतिकान् शठान्। हैतुकान् वकवृत्तींश्च वाङ्-मात्रेणापि नार्च्चयेत्। दूरापास्तस्तु संसर्गः सहास्यावापि पापिभिः। पाषण्डिभिर्दुराचारैस्त{??}त्तान् परि-वजयेत्। एते नग्नास्तवाख्याता दृष्ट्या श्राद्धोपघातकाः। येषां सम्भाषणात् पुंसां दिनपुण्यं प्रणश्यति। एतेपाषण्डिनामानो ह्येतान्न चालपेद्बुधः। पुण्यं नश्यतिसम्भाषादेतेषां तद्दिनोद्भवम्। पुसां जटाधरणमौण्ड्यवतांवृथैव मोघाशिनामखिलशौचनिराकृतानाम्। तोयप्र-दानपितृपिण्डबहिष्कृताना सम्भाषणादप्रि नरा नरकंप्रयान्ति” विष्णु पु॰

३ अंशे

१८ अ॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषण्डिन्¦ m. (-ण्डी) A heretic, &c.: see पाषण्ड। E. पाषण्ड, and इनि added.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषण्डिन्/ पाषण् ( Mn. Ya1jn5. etc. ) m. a heretic(See. IW. 219 ; 299 ).

"https://sa.wiktionary.org/w/index.php?title=पाषण्डिन्&oldid=298282" इत्यस्माद् प्रतिप्राप्तम्