सामग्री पर जाएँ

पाषाणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषाणः, पुं, (पषति पीडयत्यनेनेति । पष पीडने + बाहुलकात् आनच् । “पषेर्णिच्च ।” २ । ९० । इत्युज्ज्वलदत्तोक्त्या स च णित् ।) प्रस्तरः । तत्- पर्य्यायः । ग्रावः २ उपलः ३ अश्मा ४ शिला ५ दृषत् ६ । इत्यमरः । २ । ३ । ४ ॥ दृशत् ७ । इति भरतः ॥ प्रस्तरः ८ पारावुकः ९ पारटीटः १० मृन्मरुः ११ काचकः १२ । इति शब्दरत्नावली ॥ (यथा, देवीभागवते । ४ । २१ । ५४ । “गतेऽथ नारदे कंसः समाहूयाथ बालकम् । पाषाणे पोथयामास सुखं प्राप च मन्दधीः ॥” पाषाणादिनिर्म्मितत्वात् देवताप्रतिमादि । यथा, आर्य्यासप्तशत्याम् । ३८६ । “पूजां विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च । तदुभयविप्रतिपन्नः पश्यतु गीर्व्वाणपाषाणम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषाणः [pāṣāṇḥ], [पिनष्टि पिष् संचूर्णने आनच् पृषो˚ Tv.] A stone.

णी A small stone used as a weight.

A spear.-Comp. -गर्दभः a hard swelling on the maxillary joint. -चतुर्दशी N. of a festival on the 14th day of the month of Mārgaśīrṣa, when the sun is in the वृश्चिकराशि, in honour of Gaurī. In this festival sweet balls shaped like a पाषाण are prepared. -दारकः, -दारणः a stonecutter's chisel. -शीला a flat stone. -सन्धिः a cave or chasm in a rock. -हृदय a. stonehearted, cruel, relentless.

"https://sa.wiktionary.org/w/index.php?title=पाषाणः&oldid=298292" इत्यस्माद् प्रतिप्राप्तम्