सामग्री पर जाएँ

पाषाणगर्द्दभः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषाणगर्द्दभः, पुं, हनुसन्धिजक्षुद्ररोगविशेषः । तल्लक्षणमाह । “वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः । स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्द्दभः ॥” स्थिरः कठिनः ॥ * ॥ तच्चिकित्सा यथा, -- “पाषाणगर्द्दभं पूर्ब्बं स्वेदयेत् कुशलो भिषक् । ततः पनसिकाप्रोक्तैः कल्कैरुष्णैः प्रलेपयेत् ॥ वातश्लैष्मिकशोथघ्नैः कल्कैरन्यैश्च लेपयेत् । परिपाकगतं भित्त्वा व्रणवत्तमुपाचरेत् ॥ जलोकाभिर्हृते रक्ते स शाम्यति विनौषधम् । एतत्स्थलेषु बहुषु प्रेक्षितं लिखितं ततः ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=पाषाणगर्द्दभः&oldid=148635" इत्यस्माद् प्रतिप्राप्तम्