पाषाणचतुर्द्दशी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाषाणचतुर्द्दशी, स्त्री, (पाषाणसाध्या पाषाणवत्- पिष्टकभोजनसाध्या चतुर्द्दशी ।) वृश्चिकराशिस्थ- रविकशुक्लपक्षीयचतुर्द्दशी । यथा, भविष्ये । “वृश्चिके शुक्लपक्षे तु या पाषाणचतुर्द्दशी । तस्यामाराधयेद्गौरीं नक्तं पाषाणभोजनैः ॥ पाषाणभोजनैः पाषाणाकारपिष्टकभोजनैः ।” इति तिथ्यादितत्त्वम् ॥
