सामग्री पर जाएँ

पाषाणभेदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषाणभेदनः, पुं, (पाषाणं अश्मरीं भिनत्तीति । भिद् + ल्युः ।) वृक्षविशेषः । हाड्जुडी इति भाषा । तत्पर्य्यायः । अश्मघ्नः २ शिलाभेदः ३ अश्मभेदकः ४ श्वेता ५ उपलभेदी ६ पलभित् ७ शिलगर्भजः ८ । अस्य गुणाः । मधुरत्वम् । तिक्त- त्वम् । मेहतृड्दाहमूत्रकृच्छ्राश्मरीनाशित्वम् । शीतलत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “पाषाणभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजनी । अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः ॥ भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्रुजः । योनिरोगान् प्रमेहांश्च प्लीहाशूलव्रणानि च ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषाणभेदन¦ पु॰ पाषाणं भिनत्ति ल्यु। (हाडजोडा)

१ वृक्षभेदे राजनि॰ ण्वुल्। पाषाणभेदकोऽप्यत्र
“पाषा-णभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजनी। अश्मभेदो हिम-स्तिक्तः कषायो वस्तिशोधनः। भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्रुजः। योनिरोगान् प्रमेहांश्च प्लीहाशूलव्रणानि च” भावप्र॰।

२ प्रस्तरभेदकमात्रे त्रि॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषाणभेदन/ पाषाण--भेदन m. id. or Lycopodium Imbricatum L.

"https://sa.wiktionary.org/w/index.php?title=पाषाणभेदन&oldid=298337" इत्यस्माद् प्रतिप्राप्तम्