सामग्री पर जाएँ

पाषाणभेदनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाषाणभेदनः, पुं, (पाषाणं अश्मरीं भिनत्तीति । भिद् + ल्युः ।) वृक्षविशेषः । हाड्जुडी इति भाषा । तत्पर्य्यायः । अश्मघ्नः २ शिलाभेदः ३ अश्मभेदकः ४ श्वेता ५ उपलभेदी ६ पलभित् ७ शिलगर्भजः ८ । अस्य गुणाः । मधुरत्वम् । तिक्त- त्वम् । मेहतृड्दाहमूत्रकृच्छ्राश्मरीनाशित्वम् । शीतलत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “पाषाणभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजनी । अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः ॥ भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्रुजः । योनिरोगान् प्रमेहांश्च प्लीहाशूलव्रणानि च ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=पाषाणभेदनः&oldid=148642" इत्यस्माद् प्रतिप्राप्तम्