पिचिण्डः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिचिण्डः, पुं, उदरम् । इत्यमरः । २ । ६ । ७७ ॥ तस्य लक्षणं यथा, -- “भोगाढ्याः समजठरा निःस्वाः स्युर्घटसन्निभाः । सर्पोदरा दरिद्राः स्युः -- ॥” इति गारुडे ६३ अध्यायः ॥ पशोरवयवः । इति मेदिनी । डे, ३२ ॥
