पिचुमर्द्दः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिचुमर्द्दः, पुं, (पिचुं कुष्ठविशेषं मर्द्दयति मृद्ना- तीति वा । मृद् + अण् ।) निम्बवृक्षः । इत्य- मरः । २ । ४ । ६२ ॥ (यथा, देवीभागवते । ३ । १० । १२ । “असतामुपकाराय दुर्ज्जनानां विभूतयः । पिचुमर्द्दः फलाढ्योऽपि काकैरेवोपभुज्यते ॥” पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् । “कैटर्य्यः पिचुमर्द्दश्च निम्बोऽरिष्टो वरत्वचा । दर्द्दुघ्नो हिङ्गुनिर्य्यासः सर्व्वतोभद्र इत्यपि ॥”)
