पिच्चटम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिच्चटम्, क्ली, (पिच्चयतीति । पिच्च छेदने + अटन् ।) सीसकम् । रङ्गम् । (अस्य पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “रङ्गं वङ्गञ्च कस्तीरं मृद्वङ्गं पुत्त्र पिच्चटम् ॥”) नेत्ररोगे, पुं । इति मेदिनी । टे, ५० ॥
