पिच्छिलम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिच्छिलम्, त्रि, (पिच्छा भक्तसम्भूतमण्डं अस्त्य- स्येति । पिच्छादित्वात् इलच् ।) भक्तमण्ड- युक्तम् । इति रायमुकुटः ॥ सरसव्यञ्जनादि । इति भरतः ॥ सूपादि । इति रमानाथः । स्निग्धसूपादि । इति भानुदीक्षितः ॥ मण्ड- युक्तभक्तम् । जलयुक्तव्यञ्जनम् । इति नील- कण्ठः ॥ तत्पर्य्यायः । विजिलम् २ । इत्यमरः । २ । ९ । ४६ ॥ विजयिनम् ३ विजिनम् ४ विज्ज- लम् ५ इज्जलम् ६ लालसीकम् ७ । इति वाचस्पतिः ॥ (यथा, छन्दोमञ्जर्य्याम् । “तरुणं सर्षपशाकं नवौदनानि पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति ॥”) पिच्छयुक्तः ॥ (स्निग्धसरसपदार्थविशेषः । पेचल इति भाषा ॥ यथा, साहित्यदर्पणे १० । ५५ । “काले वारिधराणामपतितया नैव शक्यते स्थातुम् । उत्कण्ठितासि तरले ! नहि नहि सखि ! पिच्छिलः पन्थाः ॥”)
