पिञ्जली
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिञ्जली, स्त्री, (पिञ्जल + स्त्रियां ङीष् ।) कुशा- न्तरवेष्टितप्रादेशमात्रसाग्रकुशपत्रद्वयम् । अस्या नामान्तरं पवित्रम् । यथा, -- “अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥ एतदेव हि पिञ्जल्या लक्षणं समुदाहृतम् ॥” इति छन्दोगपरिशिष्टम् ॥
