सामग्री पर जाएँ

पिटकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिटकः, पुं, क्ली, (पेटतीति । पिट् + क्वुन् ।) वंश- वेत्रादिमयसमुद्गकः । पेटारी इति पेटा इति पेडा इति च ख्यातः । तत्पर्य्यायः । पेटकः २ पेडा ३ मञ्जूषा ४ । इत्यमरः । २ । १० । ३० ॥ आद्यौ स्वल्पपेटिकायाम् । इति स्वामी ॥ पेटः ५ पेटिका ६ तरिः ७ तरी ८ मञ्जुषा ९ पेडिका १० । इति शब्दरत्नावली ॥ (यथा, मार्कण्डेये । ५० । ८६ । “कुद्दालदात्रपिटकास्तद्वत् स्थाल्यादिभाज- नम् ॥”) विस्फोटे, त्रि । इति मेदिनी । के, १२० ॥ (देहे- स्थानभेदेन जातस्यास्य शुभाशुभमुक्तम् । यथा, बृहत्संहितायाम् । ५२ । १ -- १० । “सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये । ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम् ॥ सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्द्ध्नि- सौभाग्यमाराद् दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशी- लताञ्च । तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्ट- दृष्टिं प्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनस्थानगाश्चाति चिन्ताम् ॥ घ्राणागण्डे वसनसुतदाश्चोष्ठयोरन्नलाभं कुर्य्युस्तद्वच्चिबुकतलगा भूरि वित्तं ललाटे । हन्वोरेवं गलकृतपदा भूषणान्यन्नपाने श्रोत्रे तद्भूषणगणमपि ज्ञानमात्मस्वरूपम् ॥ शिरःसन्धिग्रीवाहृदयकुचपार्श्वोरसि गता अयोघातं घातं सुततनयलाभं शुचमपि । प्रियप्राप्तिं स्कन्धेऽप्यटनमथ भिक्षार्थमसकृद्- विनाशं कक्षोत्था विदधति धनानां बहु सुखम् ॥ दुःखशत्रुनिचयस्य विघातं पृष्ठबाहुयुगजा रचयन्ति । संयमञ्च मणिबन्धनजाता भूषणाद्यमुपबाहुयुगोत्थाः ॥ धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्युदरगाः सुपानान्नं नाभौ तदध इह चौरैर्धनहृतिम् । धनं धान्यं घस्तौ युवतिमथ मेढ्रे सुतनयान् धनं सौभाग्यं वा गुदवृषणजाता विदधति ॥ ऊर्वोर्यानाङ्गनालाभं जान्वोः शत्रुजनात् क्षतिम् । शस्त्रेण जङ्घयोर्गुल्फेऽध्वबन्धक्लेशदायिनः ॥ स्फिक्पार्ष्णिपादजाता धननाशागम्यगमनमध्वानम् । बन्धनमङ्गुलिनिचये- ऽङ्गुष्ठे च ज्ञातिलोकतः पूजाम् ॥ उत्पातगण्डपिटका दक्षिणतो वामतस्त्वभीघाताः । धन्या भवन्ति पुंसां तद्विपरीतास्तु नारीणाम् ॥ इति पिटकविभागः प्रोक्त आ मूर्द्धतोऽयं व्रणतिलकविभागोऽप्येवमेव प्रकल्प्यः । भवति मशकलक्ष्मावर्त्तजन्मापि तद्व- न्निगदितफलकारि प्राणिनां देहसंस्थम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिटकः [piṭakḥ] कम् [kam], कम् 1 A box, basket; सशूर्पपिटकाः सर्वे Mb.5. 155.7.

A granary.

A pimple, pustule, small boil or ulcer; (also पिटका or पिटिका in this sense); ततो गण्डस्योपरि पिटका संवृत्ता Ś.2; सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये । ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम् ॥ Bṛi. S.52.1.

A kind of ornament on the banner of Indra.

A collection of writings; as विनयपिटकम्.

का A small boil or pimple;

A box, basket; खनित्रपिटके चोभे समानयत गच्छत Rām.2.37.5.

"https://sa.wiktionary.org/w/index.php?title=पिटकः&oldid=299491" इत्यस्माद् प्रतिप्राप्तम्