सामग्री पर जाएँ

पिठरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिठरः, पुं, (पिठ्यते क्लिश्यतेऽनेनेति । पिठ + करन् ।) गृहभेदः ॥ तत्पर्य्यायः । कुद्रङ्कः २ उद्वाटः ३ । इति त्रिकाण्डशेषः ॥ (यथा, अर्य्यासप्तशत्याम् । ५५२ । “विद्यज्ज्वालावलयितजलधरपिठरोदराद्विनिर्य्यान्ति ॥”) स्थाली । इत्यमरः । २ । ९ । ३१ ॥ (यथा, महाभारते । ३ । ३ । ७२ । “गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ! । यावत् वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ! ॥” अग्निविशेषः । यथा, हरिवंशे । १७८ । ३३ । “पिठरः पतगः स्वर्गश्चागाधो भ्राज एव च । स्वधाकाराश्रयाः पञ्च अयुध्यंस्तेऽपि चाग्नयः ॥” दानवविशेषः । यथा, महाभारते । २ । ९ । १३ । “घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिठरः [piṭharḥ] रम् [ram], रम् 1 A pot, pan, boiler (also पिठरी in this sense); पिठरं क्वथदतिमात्रं निजपार्श्वानेव दहतितराम् Pt.1.324; जठरपिठरी दुष्पूरेयं करोति विडम्बनाम् Bh.3.116.

A book, a manuscript; L. D. B.

Smearing, plastering; L. D. B. -रम् A churning-stick. -रः An addition to a building shaped like a hollow vessel. -Comp. -पाकः the union of cause and effect.

"https://sa.wiktionary.org/w/index.php?title=पिठरः&oldid=299598" इत्यस्माद् प्रतिप्राप्तम्