सामग्री पर जाएँ

पिडका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिडका, स्त्री, (पीडयतीति । पीड + ण्वुल् + टाप् । निपातनात् साधुः ।) स्फोटकविशेषः । प्रमे- जहा सा दशविधा । यथा, -- “शराविका कच्छपिका जालिनी विनतालजी । मसूरिका सर्षपिका पुत्त्रिणी च विदारिका । विद्रधिश्चेति पिडकाः प्रभेहोपेक्षया दश ॥” तासां प्रत्येकलक्षणं यथा, -- “सन्धिमर्म्मसु जायन्ते मांसलेषु च धामसु । अन्तोन्नता च तद्रूपा निम्नमध्या शराविका ॥ १ ॥ सदाहा कूर्म्मसंस्थाना ज्ञेया कच्छपिका बुधैः । २ । जालिनी तीव्रदाहार्त्तिमांसजालसमावृता ॥ ३ ॥ अवगाढरुजा क्लेदा पृष्ठे वाप्युदरेऽपि वा । महती पिडका नीला विनता नाम सा स्मृता ॥ ४ ॥ रक्तासिता स्फोटचिता दारुणा त्वलजी भवेत् । ५ । मसूरफलसंस्थाना विज्ञेया सा मसूरिका ॥ ६ ॥ गौरसर्षपसंस्थाना तत्प्रमाणा च सर्षपी । ७ । महत्यल्पचिता ज्ञेया पिडका चापि पुत्त्रिणी ॥ ८ ॥ विदारी कन्दवद्वृत्ता कठिना च विदारिका । ९ । विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा ॥” १० ॥ कुष्ठपिडका यथा, -- “कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते । बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः ॥” * ॥ पिडकाविशेषो यथा, -- “यवाकारा सुकठिना ग्रथिता मांससंश्रिता । पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ॥ घनामवक्रां पिडकामुन्नतां परिमण्डलाम् । अन्त्रालजीमल्पपूयां तां विद्यात् कफवातजाम् ॥ १ विवृतास्यां महादाहां पक्कोडुम्बरसन्निभाम् । परिमण्डलां पित्तकृतां विवृतां नाम तां विदुः ॥ २ ॥ ग्रथिताः पञ्च वा षड् वा दारुणाः कच्छपो- पमाः । कफानिलाभ्यां पिडका ज्ञेयाः कच्छपिका बुधैः ॥ ३ ॥ ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः । ग्रन्थिः सवल्मीकवदक्रियाणां जातः क्रमेणैव गतः प्रवृद्धिम् ॥ मुखैरनेकैः स्रुतितोदवद्भि- र्विसर्पवत् सर्पति चोन्नताग्रैः । वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ॥ ४ ॥ पद्मकर्णिकवन्मध्ये पिडकाभिः सदाचिताम् । इन्द्रवृद्धान्तु तां विद्याद्बातपित्तोत्थितां भिषक् ॥ ५ ॥ मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम । रुजाकरीं गर्द्दभिकां तां विद्याद्वातपित्त- जाम् ॥ ६ ॥ वातश्लेष्मसमुद्भूतः श्वयथुहनुसन्धिजः । स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाण- गर्दभः ॥ ७ ॥ कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम् । स्थिरां पनसिकान्तान्तु विद्यादन्तःप्रपाकि- णीम् ॥ ८ ॥ विसर्पवत् सर्पति यः शोथस्तनुरपाकवान् । दाहज्वरकरः पित्तात् स ज्ञेयो जालगर्दभः ॥ ९ ॥ पिडकामुत्तमाङ्गस्थां वृत्तामत्युग्ररुग्ज्वराम् । सर्व्वात्मिकां सर्व्वलिङ्गां जानीयादिरिवेल्वि- काम् ॥ १० ॥ बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां सवेदनाम् । पित्तप्रकोपसम्भूतां कक्षामित्यभिनिर्द्दिशेत् ॥ ११ ॥ एकामेतादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम् । त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते ॥ १२ ॥ कक्षभागेषु ये स्फोटा जायन्ते मांसदारुणाः । अन्तर्द्दाहज्वरकरा दीप्तपावकसन्निभाः ॥ सप्ताहाद्द्वादशाहाद्वा पक्षाद्बा घ्नन्ति मानवम् । तामग्निरोहिणीं विद्यादसाध्यां सन्निपाततः ॥ १३ ॥ नखमांसमधिष्ठाय वातः पित्तञ्च देहिनाम् । कुरुते दाहपाकौ च व्याधिन्तं चिप्यमादिशेत् ॥ तदेवाल्पतरैर्द्दोषैः कुनखं परुषं वदेत् ॥ १४ ॥ गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् । पादस्यानुशयीं तान्तु विद्यादन्तःप्रपाकिणीम् ॥ १५ विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु । विदारीति च तां विद्यात् सर्व्वजां सर्व्वलक्ष- णाम् ॥” १६ ॥ इति माधवकरः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिडका¦ स्त्री पीडयति पीड--ण्वुल् क्षिपकादि॰ नि॰कुष्ठाधिकारे पीडादायके क्षुद्रस्फोटके भावप्रका॰। सुश्रुतादौ रोगभेदे नानाविधैव पिडका उक्ता तत्र भगन्दरे
“अपक्वाः पिडकाः पक्वास्तु भगन्दराः” इत्युपक्रमे पि-त्तादिपिडका उक्ता यथा
“पित्तन्तु प्रकुपितमनिलेना-धःप्रेरितं पूर्ववदवस्थितं रक्ता तन्वीमुच्छितामुष्ट्रग्रीवा-[Page4327-b+ 38] कारां पिडकां जनयति। सास्य चोषादीन् वेदनावि-शेषान् जनयत्यप्रतिक्रियमाणा च पाकमुपैति व्रण-श्चाग्निक्षाराभ्यामिव दह्यते दुर्गन्धमुष्णमास्रावं स्रवति”
“श्लेष्मजालक्षणादिकं तु परिस्रोविन्शब्दे दर्शितम्वायुजालक्षणादि तत्रोक्तं यथा
“वायुः प्रकुपितः प्रकुपितौ पित्तश्लेष्माणौ परिगृह्यापोगत्वा पूर्ववदवस्थितः पादाङ्गुष्ठप्रमाणां सर्वलिङ्गां पिडकाजनयति सास्य तोददाहकण्ड्वादीन् वेदनाविशेषान् जन-यत्यप्रतिक्रियमाणा च पाकमुपैति व्रणश्च नानाविधवर्ण-मास्रावं स्रवति पूर्णनदीशम्बूकावर्त्तवच्चात्र समुत्ति-ष्ठन्ति वेदनाविशेषाः”। मेहजास्तु भावप्र॰ उक्ता यथा
“शराविका कच्छपिका जालिनी विनताऽलजी। मसू-रिका सर्षपिका पुत्रिणी सविदारिका। विद्रधिश्चेतिपिडकाः प्रमेहापेक्षर्यां दश। सन्धिमर्मसु जायन्ते मां-सलेषु च धामसु। अन्तोन्नता च तद्रूपा निम्रमध्याशराविका

१ । सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका

२ बुधैः। जालिनी

३ तीव्रदाहा तु मांसजालसमावृता। अविमाढरुजाक्लेदा पृष्ठे वाप्युदरेऽपि वा। महतीपिडका नीला सा वुवैर्विनता

४ स्मृता। रक्ताऽसितास्फोटचिता विज्ञेया त्वलजी

५ बुधैः। मसूरदलसंस्थानाविज्ञेया तु मसूरिका

६ । गौरसर्षपसंस्थाना तत्प्रमाण। च सर्षपी

७ । महत्यल्पचिता ज्ञेया षिडकापि च पु-त्रिणी

८ । विदारीकन्दवद्वृत्ता कठिना च विदारिका

९ । विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा। ये यन्मयाःस्मृता मेहास्तेषामेतास्तु तन्मयाः। विना प्रमेहमप्येताजायन्ते दुष्टमेदसः। तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः। गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थि-ताः

१० । सोपद्रर्वा दुर्बलाग्नेः पिडकाः परिवर्जयेत्। तृट्च्छासमांससङ्कोचमेहहिक्कामदज्वराः। विसर्पध-र्मसंरोधाः पिडकानामुपद्रवाः”। ( कुष्ठाधिकारे भावप्र॰ पिडकानां वृहत्त्वे स्फोटत्वम्क्षुद्रत्वे पिडकत्वमुक्त्वा तद्भेदा उक्ता यथा
“यवाकारा सुकठिना ग्रथिता मांससंश्रिता। पिडकाश्लेष्मवाताभ्यां यवप्रख्येति

१ सोच्यते। घनामवक्रो पि-डकामुन्नतां परिमण्डलाम्

२ । अन्त्रालजीमल्पपयां तांविद्यात् कफवातजाम्। विवृतास्यां महादाहां पक्वो-डुम्बरसन्निभाम्। परिमण्डलां पित्तकृतां विवृता

३ नामतां विदुः। ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छ-[Page4328-a+ 38] पोपमाः। कफानिलाभ्यां पिडका ज्ञेयाः कच्छपिका

४ बुधैः। ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रि-भिरेव दीषैः। ग्रन्थिः स वल्मीकवदक्रियाणां जातःक्रमेणैव गतप्रवृद्धिः। मुखैरनेकैः श्रुतितोदवद्भिर्विसर्प-वत् सर्पति चोन्नताग्रैः। वल्मीक

५ माहुर्भिषजोवि-कारं निष्प्रत्यनीकं चिरजं विशेषात्। पद्मकर्णिक-वन्मध्ये पिडकाभिः सदाचिताम्

१ इन्द्रवृद्धान्तु

६ तां वि-द्याद्वातपित्तोत्थितां भिषक्। मण्डलं वृत्तमुत्सन्नं स रक्तंपिडकाचितम्। रुजाकरीं गर्दभिकां

७ तां विद्याद्वातपित्तजाम्। वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः। स्थिरी मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्दभः

८ ।{??}र्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम्। स्थिरां पन-सिका

९ न्तान्तु विद्यादन्तःप्रपाकिनीम्। विसर्पवत् स-र्पति यः शोथस्तनुरपाकवान्। दाहज्वरकरः पित्तात्स ज्ञेयो जालगर्दभः

१० । पिडकामुत्तमाङ्गस्थां वृत्ताम-त्युग्ररुग्ज्वराम्। सर्वात्मिकां सर्वलिङ्गां जानीयादि-रिवेल्विकाम्

११ । बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां स-वेदनाम्। पित्तप्रकोप्रसम्भूतां कक्षा

१२ मित्यभिनिर्दिशेत्। एकामेतादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम्। तद्गतांपित्तकोपेन गन्धनामां

१३ प्रचक्षते। कक्षभागेषु ये स्फोटाजायन्ते मांसदारुणाः। अन्तर्दाहज्वरकरा दीप्तपा-वकसन्निभाः। सप्ताहाद्द्वादशाद्वा पक्षाद्वा घ्नन्ति मान-वम्। तामग्निरोहिणीं

१४ विद्यादसाध्या सन्निपाततः। नखमांसमधिष्ठाय वातपित्तञ्च देहिनाम्। कुरुते दाहपाकौ च व्याधिन्तं चिप्य

१५ मादिशेत्। तदेवाल्पतरैर्दोषैःकुनखं परुषं

१६ वदेत्। गम्भीरामल्पसंरम्भां सवर्णा-मुपरिस्थिताम्। पादस्यानुशयीं

१७ तान्तु विद्यादन्तः-प्रपाकिनीम्। विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु। विदारी

१८ मिति तां विद्यात् सर्वजां सर्वलक्षणाम्”।

"https://sa.wiktionary.org/w/index.php?title=पिडका&oldid=500932" इत्यस्माद् प्रतिप्राप्तम्