पिण्डकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिण्डकः, पुं, (पिण्ड इव कायतीति । कै + कः ।) सिह्लनामगन्धद्रव्यम् । इत्यमरः । १ । ६ । १२८ ॥ (वोलः । अस्य पर्य्यायो यथा, -- “विद्वान् गोलः पिण्डकश्च पिण्डोवोलो रसोरसः ॥” इति वैद्यकरत्नमालायाम् ॥) पिशाचः । इति त्रिकाण्डशेषः ॥ पिण्डालुः । इति राजनिर्घण्टः ॥ (अस्य गुणा यथा, -- “पिण्डको वातलः श्लेष्मी ग्राही वृष्यो महा- गुरुः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ पिण्ड + स्वार्थे कन् । कवलः । यथा, हरिवंशे । भविष्यपर्व्वणि । १० । २१ । “पयःपानं तथा कुर्व्वन् भक्षयन् दधिपिण्ड- कम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिण्डकः [piṇḍakḥ] कम् [kam], कम् 1 A lump, ball, globe.
A round swelling or protuberance.
A lump of food.
The calf of the leg.
Incense.
Carrot.
(In astr.) A sine expressed in numbers. -कः A goblin, demon.
