पिण्डदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिण्डदः, पुं, (पिण्डं ददातीति । दा + कः ।) पिण्डदानकर्त्ता । यथा, -- “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥” इति शुद्धितत्त्वम् ॥ अपि च । “गाङ्गेनेह परां सिद्धिं प्राप्यन्ते वारिणा नराः । पैत्र्याः पश्चात् क्रियाः कार्य्याः सर्व्वाश्चैवौर्द्ध्व- देहिकाः ॥ क्रियां करोति यः पूर्ब्बां पितॄणां यश्च पिण्डदः । प्रायश्चित्तमचीर्णं तत् प्रायश्चित्ती भवेत्तु सः ॥” इत्यग्निपुराणम् ॥
