पिण्डम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिण्डम्, क्ली, पुं, (पिण्डते संहतो भवतीति । पिडि संहतौ + अच् । पिण्ड्यते राशोक्रियते इति । कर्म्मणि घञ् वा ।) आजीवनम् । अयः । इति मेदिनी । डे, १९ ॥ श्राद्धशेषद्रव्यनिर्म्मित- बिल्वफलाकारपित्र्युदेश्यकदेयान्नम् । यजुर्व्वेदिनां पिण्डशब्दो नपुंसकलिङ्गेन प्रयुज्यते । यथा, -- “अवनिक्तं पिण्डं दद्यादसावेतत्त इति श्राद्ध- विवेकधृतपिण्डपितृयज्ञीयकात्यायनवचने पिण्ड- विशेषणे एतदिति नपुंसकनिर्द्देशात् भाषेतैतच्च वै पिण्डं यज्ञदत्तस्य पूरकमिति ऋष्यशृङ्गवचने- ऽपि तथा दर्शनाच्च । छन्दोगानां पिण्डशब्दः पुंलिङ्गेन प्रयुज्यते । दर्भेषु मधु मधु मध्वित्यक्ष- न्नमी मदन्त इति जपित्वा त्रींस्त्रीन् पिण्डान् दद्यादिति गोभिलसूत्रे पिण्डानिति पुंलिङ्ग- निर्द्देशात् ।” इति श्राद्धतत्त्वम् ॥ * ॥ गयादा- वात्मपिण्डदानविधिर्यथा, -- “गयान्तं पिण्डदानञ्च गयान्तं तीर्थमेव च । पञ्चकान्तं कामरूपं पिच्छिलान्तं सरित् शुभे ॥ जनार्द्दनस्य हस्ते तु पिण्डं दद्यात् स्वकं नरः । विरजे च तथा चाश्वकर्णे रामे च सोमके ॥ जीवत्पिण्डप्रदानेन अल्पायुर्जायते नरः । यत्रागम्ये महाक्षेत्र स्वकं पिण्डं ददेत्तु यः । मासद्वयाधिकं वर्षमायुषो वर्द्धते क्रमात् ॥” इति योगिनीयन्त्रे प्रथमतमे २ भागे ५ पटलः ॥ अन्यत् गयाशब्दे द्रष्टव्यम् ॥
