पिण्डालुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिण्डालुः, पुं, (पिण्डवत् स्थूल आलुः ।) कन्द- गुडूची । कन्दभेदः । पेडालु इति हिन्दी- भाषा । चुवडि आलु इति वङ्गभाषा । तत्- पर्य्यायः । ग्रन्थिलः २ पिण्डकन्दः ३ ग्रन्थिः ४ रोमशः ५ रोमकन्दः ६ रोमालुः ७ ताम्बूल- पत्रः ८ नानाकन्दः ९ पिण्डकः १० । अस्य गुणाः । मधुरत्वम् । शीतत्वम् । मूत्रकृच्छ्रदाह- शोषप्रमेहनाशित्वम् । वृष्यत्वम् । सन्तर्पणत्वम् । गुरूत्वञ्च । इति राजनिर्घण्टः ॥
