पिण्डीतकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिण्डीतकः, पुं, (पिण्डीं स्वल्पपिण्डं तनोतीति । तन + अनेभ्योऽपीति डः । ततः संज्ञायां कन् ।) मदनवृक्षः । इत्यमरः । २ । ४ । ५२ ॥ (अस्य पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “मदनः श्वसनोराचो गोलः पिण्डीतकः फलम् । छर्द्दालो बिल्वपुष्पा च हरहाटस्तु शल्यकः ॥” यथा च । “पिण्डीतकस्य तु वराहविभावितस्य मूलेषु कन्दशकलेषु च सौवहेषु । तैलं कृतं गतिमपोहति शीघ्रमेतत् कन्देषु चामरवरायुधसाह्वयेषु ॥” इति सुश्रुते चिकित्सितस्थाने सप्तदशेऽध्याये ॥) तगरः । फणिज्झकः । इति विश्वः ॥
