पिण्डीशूरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिण्डीशूरः, पुं, (पिण्ड्यां पिण्डव्यापारे भोजने एव शूरः अतिनिपुणः नान्यत्र कार्य्यादाविति भावः ।) स्वगेहमात्रे वसन् परद्वेषी । तत्- पर्य्यायः । गेहेनर्दी २ गेहेशूरः ३ । इति हेम- चन्द्रः । ३ । १४१ ॥ (यथा, भट्टौ । ५ । ८५ । “राक्षसान् वटुयज्ञेषु पिण्डीशूरान्निरस्तवान् । यद्यसौ कूपमाण्डूकि ! तवैतावति कः स्मयः ॥”)
