पितरौ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पितरौ, पुं, जनकजनयित्र्यौ । माता च पिता चेति विग्रहे विकल्पादेकशेषे पितराविति प्राञ्चः । इति भरतः ॥ तत्पर्य्यायः । माता- पितरौ २ मातरपितरौ ३ तातजनयित्र्यौ ४ । इत्यमरः । २ । ६ । ३७ ॥ (यथा, रधुः । १ । १ । “जगतः पितरौ वन्दे पार्व्वतीपरमेश्वरौ ॥”) तयोरभक्त्या पालने दोषो यथा, -- “पितृमातृगुरूंश्चापि भक्तिहीनेन पालयेत् । वाचा च ताडयेन्नित्यं स्वामिनं कुलटा च या ॥ सा कृतघ्नीति विख्याता पापिनां भारते नरः । वह्निकुण्डं महाघोरं स च सा च प्रयाति च ॥ तत्र वह्नौ वसत्येव यावच्चन्द्रदिवाकरौ । ततो भवेज्जलौका च जन्म सप्त ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्यायः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पितरौ पुं-द्वि।
मातापितरौ
समानार्थक:मातापितृ,पितरौ,मातरपितृ,प्रसूजनयितृ
2।6।37।1।2
मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ। श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च॥
पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
