पितृतिथिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पितृतिथिः, स्त्री, (पितृप्रिया तिथिरिति मध्य- लोपी समासः ।) अमावास्या । यथा, -- “अमावास्यादिनं वोऽस्तु तस्यां कुशतिलोदकैः । तर्पिता मानुषैस्तृप्तिं परां गच्छत नान्यथा ॥” इति वाराहे पितृसर्गस्थितिवर्णनम् ॥
