पितृलोकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पितृलोकः, पुं, (पितॄणां लोकः ।) पितॄणां भुव- नम् । (यथा, महाभारते । १ । ६२ । १० । “कथञ्च बहुलाः सेनाः पाण्डवः कृष्णसारथिः । अस्यन्नेकोऽनयत् सर्व्वाः पितृलोकं धनञ्जयः ॥”) अस्य विवरणं यथा, -- मार्कण्डेय उवाच । “सर्व्वेषामेव देवानामाद्यो नारायणो गुरुः । तस्माद्ब्रह्मा समुत्पन्नः सोऽपि सप्तासृजन्मुनीन् ॥ मा यजस्वेति तेनोक्तास्तदा ते परमेष्ठिनः । आत्मनात्मानमेवाग्रे अयजन्त इति श्रुतिः ॥ तेषां वै ब्रह्मजातानां महावैकारिकर्म्मणाम् । अपश्यद्व्यभिचारेण महानेष कृतो यतः । प्रभ्रष्टज्ञानिनः सर्व्वे भविष्यथ न संशयः ॥ एवं शप्तास्ततस्तेऽपि ब्रह्मणात्मसमुद्भवाः । सद्योवंशकरान् पुत्त्रानुत्पाद्य त्रिदिवं ययुः ॥ ततस्तेषु प्रयातेषु त्रिदिवं ब्रह्मवादिषु । तत्पुत्त्राः श्राद्धदानेन तर्पयामासुरञ्जसा ॥ ते च वैमानिकाः सर्व्वे ब्रह्मणः सप्त मानसाः । तत्पिण्डदानमन्त्रोक्तं प्रपश्यन्तो व्यवस्थिताः ॥ गौरमुख उवाच । ये च ते पितरो ब्रह्मन् स्वञ्च कालं समासते । कियन्तो वै पितृगणास्तस्मिन् लोके व्यवस्थिताः ॥ मार्कण्डेय उवाच । प्रवर्त्तन्ते वराः केचिद्देवानां सोमवर्द्धनाः । ते मरीच्यादयः सप्त स्वर्गे ते पितरः स्मृताः ॥ चत्वारो मूर्त्तिमन्तो वै त्रयस्त्वन्ये ह्यमूर्त्तयः । तेषां लोकनिसर्गञ्च कीर्त्तयिष्यामि तच्छृणु ॥ प्रभावञ्च महर्षे त्वं विस्तरेण निवोध मे । धर्म्ममूर्त्तिधरास्तेषां त्रयोऽन्ये परमा गणाः ॥ इत्युक्त्वा तु तदा ब्रह्मा तेषां पन्थानमाकरोत् । दक्षिणायनसंज्ञन्तु पितॄणान्तु पितामहः ॥ तूष्णीं ससर्ज भूतानि तमूचुः पितरस्ततः । वृत्तिं नो देहि भगवन् यया विन्दामदे सुखम् ॥ ब्रह्मोवाच । अमावास्यादिनं वोऽस्तु तस्यां कुशतिलोदकैः । तर्पिता मानुषैस्तृप्तिं परां गच्छत नान्यथा ॥ तिला देयास्तथैतस्यामुपोष्य पितृभक्तितः । परमं तस्य सन्तुष्टाः परं यच्छत मा चिरम् ॥” इति वाराहे पितृसर्गस्थितिवर्णनम् ॥ * ॥ पितृश्राद्धविशेषे देवताविशेषाः पितृगणाश्च यथा, “क्रतुर्दक्षो वसुः सत्यः कामः कालस्तथा ध्वनिः । रोचकश्चाद्रवाश्चैव तथा चान्यः पुरूरवाः ॥ विश्वेदेवा भवन्त्येते दश सर्व्वत्र पूजिताः । विश्वदेवौ क्रतुदक्षौ सर्व्वास्विष्टिषु विश्रुतौ ॥ नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके । नवान्नालम्भने देवौ कामकालौ सदैव हि ॥ अपि कन्यागते सूर्य्ये श्राद्धे च ध्वनिरोचकौ । पुरूरवाश्चाद्रवाश्च विश्वदेवौ च पर्व्वणि ॥ सुभास्वरा वर्हिषदो ह्यग्निस्वात्तास्तथैव च । आज्यपाश्चोपहूताश्च क्रव्यादाश्च सुकालिनः । एते पितृगणाः सप्त पौराणाः केचिदेव हि ॥” इत्यग्निपुराणम् ॥ * ॥ अग्निस्वात्तादेरुत्पत्तिर्यथा, -- “ततो निगृह्येन्द्रियकं विकारं चतुराननः । जिघृक्षुरपि तत्याज तां सन्ध्यां कामरूपिणीम् ॥ तत्शरीरात्तु घर्म्माम्भो यत् पपात द्बिजोत्तमाः । अग्निस्वात्ता वर्हिषदो जाताः पितृगणास्ततः ॥ भिन्नाञ्जननिभाः सर्व्वे फुल्लराजीवलोचनाः । नितान्तसंयताः पुण्याः संसारविमुखाः परे ॥ सहस्राणां चतुःषष्टिरग्निस्वात्ताः प्रकीर्त्तिताः । षडशीतिसहस्राणि तथा वर्हिषदो द्विजाः ॥” इति कालिकापुराणे २ अध्यायः ॥ * ॥ तेषां तर्पणविधिर्यथा, -- “अपसव्यं ततः कृत्वा सव्यं जानु च भूतले । अग्निस्वात्तांस्तथा सौम्यान् हविष्मतस्तथोष्मपान् ॥ सुकालिनो वर्हिषदस्तथा चैवाज्यपान् पुनः । तर्पयेत्तु पितॄन् भक्त्या सतिलोदकचन्दनैः ॥ दर्भपाणिस्तु विधिवत् प्रेतांस्तांस्तर्पयेत्ततः । पित्रादीन्नामगोत्रेण तथा मातामहानपि । सन्तर्प्य विधिवद्भक्त्या इमं मन्त्रमुदीरयेत् ॥ ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिलां यान्तु यश्चास्मत्तोऽभिवाञ्छति ॥” इति मात्स्ये स्नानविधौ ८४ अध्यायः ॥
