सामग्री पर जाएँ

पितृहूः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पितृहूः, पुं, (पितॄनाह्वयत्यनेनेति । पितृ + ह्वे + करणे क्विप् ।) दक्षिणकर्णः । यथा, श्रीभाग- वते । ४ । २५ । ५० । “पितॄहूर्नृपपुर्य्या द्बार्दक्षिणेन पुरञ्जनः ॥” “शास्त्रे च प्रथमं श्रोतव्यं कर्म्मकाण्डं इत्येता- वता सामान्येन प्रवृत्तसंज्ञकस्य कर्म्मकाण्डस्य दक्षिणकर्णेन श्रवणमिष्यते । ततस्तदर्थमनुष्ठाय पितृभिराहूतः पितृलोकप्रापकं पितृयानं प्रप- द्यते । तदनेन प्रकारेण पितॄणामाह्वानमनेन भवति पितृहूर्दाक्षंणः कर्णः । एवं तद्वैवरीत्येन उत्तरकर्णो देवहूः । तथा च व्याख्यास्वति । पितृहूर्दक्षिणः कर्णः उत्तरो देवहूः स्मृतः । प्रवृत्तञ्च निवृत्तञ्च शास्त्रं पञ्चालसंज्ञितम् ॥” इति तट्टीकायां श्रीधरस्वामी ॥

"https://sa.wiktionary.org/w/index.php?title=पितृहूः&oldid=148934" इत्यस्माद् प्रतिप्राप्तम्