सामग्री पर जाएँ

पित्तज्वरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पित्तज्वरः, पुं, (पित्तनिमित्तको ज्वरः ।) पैत्तिक- ज्वरः । यथा, -- “विशेषतः कोमलनारिकेलं निहन्ति पित्तज्वरमूत्रदोषान् ॥” इति राजनिर्घण्टः ॥ अस्य लक्षणं ज्वरशब्दे द्रष्टव्यम् ॥ * ॥ अथ पित्तज्वरचिकित्सा । “आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा- पयन् । विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥” इति वचनात् सामान्यतो ज्वरिमात्रस्य यावदा- रोग्यदर्शनं लङ्घनाभिधाने पित्तज्वरिणो लङ्घन- विधाने विशेषमाह सुश्रुतः । पैत्तिके दशरात्रेण ज्वरे युञ्जीत भेषजमिति । दशरात्रेण लङ्घन- वता व्यतीतेनेत्यर्थः । किन्तद्भेषजं तदाह । “तिक्तामुस्तायवैः पाठाकट्फलाभ्यां सहोदकम् । पक्वं सशर्करं पीतं पाचनं पैत्तिके ज्वरे ॥” इति तिक्तादिक्वाथः ॥ “पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः । प्रियङ्गुश्च कृतः क्वाथ एष शर्करया युतः ॥ पिपासादाहपित्तास्रयुक्तं पित्तज्वरं हरेत् ॥” इति पर्पटादिक्वाथः ॥ “द्राक्षा हरीतकी मुस्ता कटुका कृतमालकः । पर्पटश्च कृतः क्वाथः एष पित्तज्वरापहः ॥ मुखशोषप्रलापान्तर्दाहमूर्च्छाभ्रमप्रणुत् । पिपासारक्तपित्तानां शमनो भेदनो मतः ॥” इति द्राक्षादिक्वाथः ॥ “पटोलमथ धन्याकं मधुकं मधुसंयुतम् । हन्ति पित्तज्वरं दाहं तृष्णाञ्चातिप्रमाथिनीम् ॥” इति पटोलादिक्वाथः ॥ “गुडूच्यामलकीयुक्तः केवलो वापि पर्पटः । पित्तज्वरं हरेत्तूर्णं दाहशोषभ्रमान्वितम् ॥” इति गुडूच्यादिक्वाथः ॥ “एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः । किं पुनयदि युज्येत चन्दनोशीरबालकैः ॥ ह्नीवेरचन्दनोशीरघनपर्पटसाधितम् । दद्यात् सुशीतलं वारि तृट्छर्द्दिज्वरदाहनुत् ॥” इति ह्नीवेरादिक्वाथः ॥ “भूनिम्बातिविषालोध्रमुस्तकेन्द्रयवामृताः । बालकं धान्यकं विल्वं कषायो माक्षिकान्वितः ॥ विड्भेदश्वासकासांश्च रक्तपित्तज्वरं हरेत् ॥” इति भूनिम्बादिक्वाथः ॥

"https://sa.wiktionary.org/w/index.php?title=पित्तज्वरः&oldid=148939" इत्यस्माद् प्रतिप्राप्तम्