सामग्री पर जाएँ

पित्तलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पित्तलम्, क्ली, (पित्तं तद्वर्णं लातीति । ला + कः ।) धातुविशेषः । पितल इति भाषा ॥ (यथा, वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधिकारे । “पित्तलञ्च तथा कांस्यं ताम्रवन्मारयेद्भिषक् । ताम्रवच्छोधनं तेषां ताम्रवद्गुणकारकम् ॥”) तत्पर्य्यायः । आरकूटम् २ रीतिः ३ पतिकावे- रम् ४ द्रव्यदारु ५ । इति जटाधरः ॥ रीती ६ । इति शब्दरत्नावली ॥ मिश्रम् ७ । इति रत्नमाला ॥ आरः ८ राजरीतिः ९ ब्रह्मरीतिः १० कपिला ११ पिङ्गला १२ । इति भाव- प्रकाशः ॥ क्षुद्रसुवर्णः १३ सिंहलम् १४ पिङ्ग- लकम् १५ पीतलकम् १६ लोहितकम् १७ पिङ्गललोहम् १८ पीतकम् १९ । रीतिका- युगलगुणाः । तिक्तत्वम् । शीतलत्वम् । रसे लवणत्वम् । शोधनत्वम् । पाण्डुवातकृमिप्लीह- पित्तनाशित्वञ्च । “शुक्ला स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्रिणी । हेमोपमा शुभा स्वच्छा जात्या रीतिः प्रकी- र्त्तिता ॥” इति राजनिर्घण्टः ॥ “रीतिरप्युपधातुः स्यात् ताम्रस्य यसदस्य च । पित्तलस्य गुणा ज्ञेया स्वयोनिसदृशा जनैः ॥ संयोगस्य प्रभावेण तस्यान्येऽपि गुणाः स्मृताः । रीतिकायुगलं रूक्षं तिक्तञ्च लवणं रसे । शोधनं पाण्डुरोगघ्नं कृमिघ्नं नातिलेखनम् ॥” इति भावप्रकाशः ॥ * ॥ भूर्जपत्रम् । इति शब्दमाला ॥ (बाहुल्येन पित्तमस्त्यस्येति । पित्त + “सिध्मादिभ्यश्च ।” ५ । २ । १७ । इति लच् ।) पित्तयुक्ते, त्रि । इति मेदिनी । ले, ११४ ॥ (पित्तवृद्धिकरे च । यथा, सुश्रुते सूत्रस्थाने । ४५ अध्याये । “सक्षारं पित्तलं कौपं श्लेष्मघ्रं दीपनं लघु ॥” यथा च माधवकरधृतरुग्विनिश्चयसंग्रहे पाण्डधि- कारे । “पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते । तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते ॥”)

"https://sa.wiktionary.org/w/index.php?title=पित्तलम्&oldid=148945" इत्यस्माद् प्रतिप्राप्तम्