पित्र्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पित्र्यम्, क्ली, (पितरो देवता अस्येति । पितृ + “वाय्- वृतुपित्रुषसो यत् ।” ४ । २ । ३१ । इति यत् । “रीङृतः ।” ७ । ४ । २७ । इति रीङादेशश्च । पितृदेवताकदानीयत्वादस्य तथात्वम् ।) मधु । इति राजनिर्घण्टः ॥ पितृतीर्थम् । तत्तु तर्ज्ज- न्यङ्गुष्ठान्तः । इति हेमचन्द्रः । ३ । ५०४ ॥ (पितुरिदं पितुरागतं वेति । पितृ + “पितु- र्यत् ।” ४ । ३ । ७९ । इति यत् । ततो रीङा- देशः ।) पितृसम्बन्धिनि, त्रि । यथा, -- “ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरन्तथा ॥” इति दायभागः ॥ (पितृप्रियत्वात् श्राद्धार्हे च त्रि । यथा, सुश्रुते । १ । ४६ । “कफघ्नं स्वड्गिपिशितं कषायमनिलापहम् । पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् ॥”)
