पिपीतकी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिपीतकी, स्त्री, (पिपीतको ब्राह्मणविशेषः प्रवर्त्त- कतयास्त्यत्रेति । अच् । गौरादित्वात् ङीष् ।) वैशाखशुक्लद्वादशी । तत्र कर्त्तव्यव्रतं यथा, -- शतानीक उवाच । “जलदानस्य माहात्म्यं यत्त्वया परिकीर्त्तितम् । तदहं श्रोतुमिच्छामि पिपीतकीकथां शुभाम् ॥ पुरा केन कृतञ्चैतत् केन चैतत् प्रकाशितम् । कथं पिपीतकीनाम विधानञ्चैव कीदृशम् ॥ तत् सर्व्वं ब्रूहि देवर्षे ! यदि तुष्टो मयि प्रभो ! ॥ नारद उवाच । शृणु राजन् ! प्रवक्ष्यामि द्वादशीं तां पिपी- तकीम् । यम उवाच । वैष्णवं तद्व्रतं विप्र ! कुरु गत्वा निजालयम् । विधानं शृणु विप्रेन्द्र ! द्वादशी यादृशी भवेत् ॥ वैशाखे शुक्लपक्षस्य द्बादशी वैष्णवी तिथिः । तस्यां सुशीतलजलैः स्नापयेत् केशवं प्रभुम् ॥ पूजयेद्गन्धपुष्पाद्यैर्धूपदीपैर्विधानतः ॥ नैवेद्यैर्विविधैश्चैव ताम्बूलैरथ वाससा ॥ जप्त्वा तु वैष्णवं मन्त्रं दण्डवत् प्रणमेत्ततः । दद्याद्द्विजेभ्यो विधिवत् कुम्भांस्तोयसमन्वितान् । प्रथमेऽब्दे चतुःकुम्भान् दद्याल्लवणसंयुतान् ॥ शुक्लवस्त्रावृतमुखानुपवीतसुसंयुतान् । धनुर्व्वाणसमायुक्तान् सभोज्यदक्षिणान्वितान् ॥ द्वितीयेऽष्टौ घटान्दद्याद्दधिशर्करसंयुतान् । तृतीये द्वादश घटान् तिलमोदकसंयुतान् ॥ चतुर्थे षोडशघटान् दुग्धलड्डुकसंयुतान् । दद्यात् संपूज्य देवेशं द्विजातिभ्यः प्रयत्नतः ॥ दक्षिणां शक्तितो दद्यात् भोज्यञ्चैव विशेषतः । यत्र कुत्रापि संगच्छेन्न कुत्रापि तृषान्वितः ॥ ततो द्विजो गृहं गत्वा चकार द्वादशीव्रतम् ॥ अन्ते जगाम स्वर्लोकं वैष्णवं पदमुत्तमम् ॥ पिपीतकीति नाम्नातो विख्यातो वैष्णवी तिथिः । नरो यः कुरुते भक्त्या नारी वा भक्तिसंयुता । इह पुत्त्रादिसम्पन्ना धनधान्यसुतान्विता ॥” इति भविष्यपुराणे पिपीतकीव्रतकथा समाप्ता ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिपीतकी¦ स्त्री पिपीतको ब्राह्मणभेदः स प्रवर्त्तकतयास्त्यस्यअच गौरा॰ ङीष्। वैशाखशुक्लद्वादश्याम् तद्विधानं भवि-व्यपु॰
“वैशाखे शुक्लपक्षस्य द्वादशी वैष्णवी तिथिः। तस्यांसुशीतलज{??} स्नापयेत् केशवं प्रभुम्। पूजयेद्गन्ध-पुष्पाद्यैर्धूपदीपैर्विधानतः। नैवेद्यैर्विविधैश्चैव ताम्बूलै-रथ वाससा। जप्त्वा तु वैष्णवं मन्त्रं दण्डवत् प्रणमे-त्ततः। दद्याद्विजेभ्यो विधिवत् कुम्भां स्तोयसम-न्वितान्। प्रघमेऽव्दे चतुःकुम्भान् दद्याल्लवणसंयुतान्। मालाभिरङ्कितग्रीवान् सुशीतलजलान्वितान्। शुक्ल-वस्त्रावृतमुखानुपवीतसुसंयुतान्। धनुर्वाणसमायुक्तान्सभोज्यदक्षिणान्वितान्। द्वितीयेऽष्टौ घटान् दद्याद्द-धिशर्करसंयुतान्। तृतीये द्वादश घटान् तिलमोदकसंयु-तान्। चतुर्थे षोडश घटान् दुग्धलड्डुकसंयुतान्। दद्यात् संपूज्य देवेशं द्विजातिभ्यः प्रयत्नतः। दक्षिणांशक्तितो दद्यात् भोज्यञ्चैव विशेषतः” पिपीतकव्रह्मणंप्रति यमोपदेशः। तत्कालस्तु ति॰ त॰ उक्तः द्वादशीशब्दे
३७
९९ पृ॰ दृश्यः। अधिकं तत्कथायां दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिपीतकी¦ f. (-की) The twelfth of the month Vaisa4kha, when giving away water is an act of merit. E. पिपीतक the name of a Bra4hman, said to have instituted the rite, ङीष् aff.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिपीतकी [pipītakī], The twelfth day of the light half of Vaisākha.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिपीतकी f. the 12th day of the light half of the month वैशाखाBhavP.