सामग्री पर जाएँ

पिपीतकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिपीतकी, स्त्री, (पिपीतको ब्राह्मणविशेषः प्रवर्त्त- कतयास्त्यत्रेति । अच् । गौरादित्वात् ङीष् ।) वैशाखशुक्लद्वादशी । तत्र कर्त्तव्यव्रतं यथा, -- शतानीक उवाच । “जलदानस्य माहात्म्यं यत्त्वया परिकीर्त्तितम् । तदहं श्रोतुमिच्छामि पिपीतकीकथां शुभाम् ॥ पुरा केन कृतञ्चैतत् केन चैतत् प्रकाशितम् । कथं पिपीतकीनाम विधानञ्चैव कीदृशम् ॥ तत् सर्व्वं ब्रूहि देवर्षे ! यदि तुष्टो मयि प्रभो ! ॥ नारद उवाच । शृणु राजन् ! प्रवक्ष्यामि द्वादशीं तां पिपी- तकीम् । यम उवाच । वैष्णवं तद्व्रतं विप्र ! कुरु गत्वा निजालयम् । विधानं शृणु विप्रेन्द्र ! द्वादशी यादृशी भवेत् ॥ वैशाखे शुक्लपक्षस्य द्बादशी वैष्णवी तिथिः । तस्यां सुशीतलजलैः स्नापयेत् केशवं प्रभुम् ॥ पूजयेद्गन्धपुष्पाद्यैर्धूपदीपैर्विधानतः ॥ नैवेद्यैर्विविधैश्चैव ताम्बूलैरथ वाससा ॥ जप्त्वा तु वैष्णवं मन्त्रं दण्डवत् प्रणमेत्ततः । दद्याद्द्विजेभ्यो विधिवत् कुम्भांस्तोयसमन्वितान् । प्रथमेऽब्दे चतुःकुम्भान् दद्याल्लवणसंयुतान् ॥ शुक्लवस्त्रावृतमुखानुपवीतसुसंयुतान् । धनुर्व्वाणसमायुक्तान् सभोज्यदक्षिणान्वितान् ॥ द्वितीयेऽष्टौ घटान्दद्याद्दधिशर्करसंयुतान् । तृतीये द्वादश घटान् तिलमोदकसंयुतान् ॥ चतुर्थे षोडशघटान् दुग्धलड्डुकसंयुतान् । दद्यात् संपूज्य देवेशं द्विजातिभ्यः प्रयत्नतः ॥ दक्षिणां शक्तितो दद्यात् भोज्यञ्चैव विशेषतः । यत्र कुत्रापि संगच्छेन्न कुत्रापि तृषान्वितः ॥ ततो द्विजो गृहं गत्वा चकार द्वादशीव्रतम् ॥ अन्ते जगाम स्वर्लोकं वैष्णवं पदमुत्तमम् ॥ पिपीतकीति नाम्नातो विख्यातो वैष्णवी तिथिः । नरो यः कुरुते भक्त्या नारी वा भक्तिसंयुता । इह पुत्त्रादिसम्पन्ना धनधान्यसुतान्विता ॥” इति भविष्यपुराणे पिपीतकीव्रतकथा समाप्ता ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिपीतकी¦ स्त्री पिपीतको ब्राह्मणभेदः स प्रवर्त्तकतयास्त्यस्यअच गौरा॰ ङीष्। वैशाखशुक्लद्वादश्याम् तद्विधानं भवि-व्यपु॰
“वैशाखे शुक्लपक्षस्य द्वादशी वैष्णवी तिथिः। तस्यांसुशीतलज{??} स्नापयेत् केशवं प्रभुम्। पूजयेद्गन्ध-पुष्पाद्यैर्धूपदीपैर्विधानतः। नैवेद्यैर्विविधैश्चैव ताम्बूलै-रथ वाससा। जप्त्वा तु वैष्णवं मन्त्रं दण्डवत् प्रणमे-त्ततः। दद्याद्विजेभ्यो विधिवत् कुम्भां स्तोयसम-न्वितान्। प्रघमेऽव्दे चतुःकुम्भान् दद्याल्लवणसंयुतान्। मालाभिरङ्कितग्रीवान् सुशीतलजलान्वितान्। शुक्ल-वस्त्रावृतमुखानुपवीतसुसंयुतान्। धनुर्वाणसमायुक्तान्सभोज्यदक्षिणान्वितान्। द्वितीयेऽष्टौ घटान् दद्याद्द-धिशर्करसंयुतान्। तृतीये द्वादश घटान् तिलमोदकसंयु-तान्। चतुर्थे षोडश घटान् दुग्धलड्डुकसंयुतान्। दद्यात् संपूज्य देवेशं द्विजातिभ्यः प्रयत्नतः। दक्षिणांशक्तितो दद्यात् भोज्यञ्चैव विशेषतः” पिपीतकव्रह्मणंप्रति यमोपदेशः। तत्कालस्तु ति॰ त॰ उक्तः द्वादशीशब्दे

३७

९९ पृ॰ दृश्यः। अधिकं तत्कथायां दृश्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिपीतकी¦ f. (-की) The twelfth of the month Vaisa4kha, when giving away water is an act of merit. E. पिपीतक the name of a Bra4hman, said to have instituted the rite, ङीष् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिपीतकी [pipītakī], The twelfth day of the light half of Vaisākha.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिपीतकी f. the 12th day of the light half of the month वैशाखाBhavP.

"https://sa.wiktionary.org/w/index.php?title=पिपीतकी&oldid=301928" इत्यस्माद् प्रतिप्राप्तम्